________________
PURCHASED FOR GOVERNMENT.
217
॥ श्रीमद्विशालकीत्तिमुनये नमः ।। इह हि खलु पुरा स्वकीयनिरवद्यविद्यासंयमसंपदा गणधरप्रत्येकबुद्धश्रुतकेवलिदशपूर्वाणां सूत्रकृन्महर्षीणां महिमानमात्मसात्कुद्भिर्भगवद्भिरुमास्वातिपादैराचार्यवरामत्रितस्य तत्त्वार्थाधिगमस्य मोक्षशास्त्रस्य गंधहस्त्याख्यं महाभाष्यमुपनिबध्नंतः स्याद्वादविद्यानगुरवः श्रीस्वामिसमंतभद्राचार्यास्तत्र किल मंगलपुरस्सरस्तवाविषयपरमात्मगुणातिशयपरीक्षामुपाक्षप्तवंतो देवागमाभिधानस्य प्रवचनतीर्थस्य सृष्टिमा पूरयांचक्रिरे । तदनु सकलतार्किकचक्रचूडामणिमरीचिमेचकितचरणनखकिरणो भगवान् भट्टाकलंकदेवस्तदेतस्याष्टशत्याख्येन भाष्येणोन्मेषमकार्षीत् । तदेवं महाभागैस्तार्किकार्केरुपज्ञातां श्रीमता वादीभसिंहेनोपलालितामाप्तमीमांसामलंचिकीर्षवः स्पाद्वादोद्भासिसत्यवाक्यमाणिक्यमकरिकाघटनवेंकटकाराः सूरयो विद्यानंदस्वामिनस्तदादौ भगवदर्हदाचार्यप्रवचनप्रणामोपासनकृतेन सुकृतेन निष्प्रत्यहप्रसरां गिरां चातुरीमाविर्भावयतः प्रतिज्ञाश्लोकमेकमाह ॥ श्रीवर्द्धमानमित्यादि । अस्यार्थः । अलं क्रियते विभूष्यते केन मया विद्यानंदरिणा। अनेनालंकारस्य महत्वमुद्योतितम् । का कृतिः संदर्भः । किंल्पा शास्त्रावताररचितस्तुतिगोचरातमीमांसितं । विशेष्यविशेषणयोराविष्टलिंगत्वादयं निर्देशो यथा रमणीरत्नमुर्वशीति। कस्य । अस्य स्वामिसमंतभद्राचार्यस्य । अनेनालंकार्यस्य माहात्म्यमावेदितम् ॥...
शास्त्रावताररचितस्तुतिगोचराप्तमीमांसितमिदं शास्त्रं देवागमाभिधानमित्युक्ते तद्णातिशयपरीक्षातदाप्तमीमांसितयोरेकत्वे साधिते तदाप्तमामांसितमपि देवागमाभिधानं भविष्य येवेति मनसिकृत्य तयोरेकत्वसमर्थनार्थमाह ॥ मङ्गलपुरस्सरेत्यादि । ननु च मीमांसितं परीक्षाविचार इत्यनर्थान्तरं तत्र च वादिप्रतिवादिभ्यां भवितव्यं तथा च सति समन्त
B669-28