________________
200
EXTRACTS FROM MANUSCRIPTS
मण्डपद्रङ्गशृङ्गाराः पञ्चाप्येते जिनेश्वराः । शास्त्रादौ जावडेन्द्रस्य प्रसन्नाः सन्तु संततम् ॥ ६ ॥ ... तपागच्छाधिपाः श्रीमंःसाधुसुन्दरसूरयः । मुनिसुन्दरसूरीन्द्रा जयचन्द्राश्च सूरयः ॥ ७ ॥ श्रीरत्नशेषराचार्याः श्रीलक्ष्मीसागराः परे। . जयप्रतिभवः सन्तु जावजे [जावडे] मी युगोत्तमाः ॥ ८ ॥ ततश्च ॥ सुमतिसाधुगुरुस्तपगच्छपः स्वपद पावितमालवमण्डलः । कलयति स्म स विस्मयकारणैः सकलसरिशिरोमणितां गुणैः ।।९।। पूर्व श्रेणिकभूपतिर्जिनपतेवीरस्य सेवापरः . तस्मात्संप्रतिमेदिनीपतिरभूच्छ्राद्धः सुहस्तिप्रभोः। श्रीहेमस्य कुमारपालनृपतिर्भट्टैर्यथामस्तथा जीयाज्जावड एष शेषरतया सुश्रावकाणां गुरोः ॥ १० ॥ ख्यातश्रीमालभूपालबिरुदः श्रावकाग्रणीः । कालेऽस्मिन् शालिभद्रस्य सादश्यो दृश्यते हि यः ॥११॥ तस्याभ्यर्थनया ग्रन्थः श्रीमानानन्दसुन्दरः । क्रियतेऽसौ मया सर्वविजयेन यथाश्रुतम् ॥ १२ ॥
Ends:
एवं दशश्रावकसच्चरित्रं शृण्वन्ति ये पुण्यकथापवित्रम् । तेषामशेषाः सुखसंपदोपि पदेपदे स्युः प्रमुपार्श्वभक्तेः ॥ १६ ॥ श्रीमालोज्ज्वलवंशमौक्तिकमणेः श्रीजावडस्यार्थनां मत्वा मालवदेशमण्डनकरे श्रीमण्डपक्ष्माधरे ।