________________
PURCHASED FOR GOVERNMENT. 199 No. 625. Anandasundara, by SAR VAVIJAYA [आनन्दसुन्दर :-सर्वविजय :]. Begins:
पूर्व पाणिगृहीत्तकङ्कणकसकौसुग्भवासोवधूयुग्मात्पल्लवितोऽभिषेकविधिना वृद्धि परां प्राप यः । संजातः शतशाख एष तनुजैः श्रीनाभिभूभूरुहः सुच्छायः सुमनोमनोहरतनुस्तन्यात्कलं वः फलम् ॥ १॥ . प्राञ्चत्पञ्चफणामणिच्छलधराः पञ्चापि दीपाङ्कराः शोभन्ते शिवपत्तनोत्कमनसां मिथ्यात्वरात्रावपि । पञ्चाचारपथानिव प्रथयितुं यन्मूर्ध्नदेशे स्थिराः श्रीमानेष जिनश्चिनोतु परमं पृथ्वीसुतः प्रार्थितम् ॥ २ ॥ नीलाम्भोधरसोदरद्युतिजुषः स्वश्रीमुखे श्रीपतेः शंखः पूरयितुं कुतूहलरसावेशेन येनाहितः । धत्ते नित्यसलीलनीलकमलक्रीडन्मरालोपमा नेमिर्नेमिनरान्नरायणनतो नेतावतादुःकृतात् ॥ ३॥ पन्नामापि समापिताखिलविपद्व्यापारमाकारणं श्रीणामत्र परत्र मन्त्रमयतां निर्विघ्नमास्तिपते । सार्वः सर्वजनीनसर्वमहितो माहात्म्यकेलीगृह द्विश्चिन्तामणिरेष शेषरबरो विश्वेषु पार्श्वः श्रिये ॥ ४ ॥ जन्मस्नानमहे महेन्द्रनिवहैर्निर्मायमाणे मुहुः कालेयद्रवपिञ्जरैर्जलभरैः किंपातिमानं गतः। मेरुः काञ्चनसानुरित्थमधिकां प्रापत्प्रसिद्धिं पुरः । श्रीवीरः परमेश्वरः प्रणमतां पुष्णातु पुण्यानि सः ॥ ५ ॥