________________
180
EXTRACTS FROM MANUSCRIPTS निबन्धो यस्योच्चैविविधविधिरत्नौवसुभगः परीहासः सिन्धोरतिविशदबन्धो विजयते ॥ ७ ॥ साहित्यभक्तिरसरङ्गयदुक्तिभङ्गे झंपानिपातविधिना वसुधां विहाय । पातालसीमनि भुजंगसमर्पिताङ्गी स्वर्ग सुधापि चकमे न पुनर्धरित्रीम् ।। ८ ।। ज्ञानाध्यानं शशधरकृतिव्याकृतिव्यक्तयुक्तिप्रत्यापन्ने द्रढिमवपुषा तर्कतन्त्रेण सन्यक् । व्यक्तीकर्तुं सटुपकृतये सप्रतापावनीन्द्रः शेषानन्तप्रणयकवि - - -- -- - निबंधम् ।। ९॥ सोयं शशधराचार्यकातिव्याकृतिकेतवान् [ कैतवात् । ततः शाङ्गधरादिष्टपुष्टिधीरुपतिष्ठते ॥ १० ॥ उचितमनुचितं वा कर्म निर्मातुमेकः प्रभवात नरवीरस्तत्र धीरः स रामः। इति कृतिषु न युक्ता वक्तुमौचित्यनिष्टा तदपि गुरुकृपायामस्ति नः प्रत्ययोपि ॥ ११ ॥
ॐ विशिष्टशिष्टाचारानुमिते श्रुत्युपदिष्टाभीष्टोपायताकमिष्टदेवतानमस्कारं शिष्यशिक्षायै निबध्नन्प्रेक्षावत्प्रत्यपेक्षितमनुबन्धचतुष्टयं सूचयन्नेव चि कीपितं प्रतिजानीते ॥ ध्वंसितेत्यादिना ॥ Ends :
इति श्रीसकलसामन्तचक्रचूझमणिमरीचिमजरीपरागपिञ्जारतचरणकम लकलिकर्णावतारश्रीमत्प्रतापराजोद्योजितशेषानन्तविरचितायां न्यायसिद्ध। न्तदीपप्रभायामीश्वरप्रकरणम् ॥