________________
PURCHASED FOR GOVERNMENT. 179 No. 210. Nyayasiddhantadipa, by SASADHARA, with the Commentary of SESH ANANTA [न्यायसिद्धान्तदीपः-सटीकः मू० शशधरः टी शेषानन्तः]. Begins : दृष्टा कौस्तुभदिव्यदर्पणमुरः सासूयमुक्षिप्तया दृष्टया कामपि पूर्वपक्षरचनामालक्ष्य लक्ष्म्या हरेः । जीयासुः प्रतिबिम्बिमुत्तरयितुं मुक्तां विवाहोत्सवे तस्याः स्वप्रतिबिम्बिचुम्बिनि कुचद्वन्द्वे कटाक्षच्छटाः ॥ १ ॥ स्तनकलशतटीनटी बिपञ्चोमुचितपदे परितोषयन्त्यपाङ्गैः । दलयति दुरितानि तन्निनादप्रमदविकम्पितकुण्डला मृडानी ॥ २ ॥ स्वप्रभूतप्रतापेन शेषक्लेशजिहीर्षया । जमदग्निकुले जज्ञे पद्मनाभः किल प्रभुः ॥ ३ ॥ ॐकारः पितृपूजनोपनिषदामाश्चर्यकर्मोचितः सत्कारः फणिरत्नमचिशिखरप्रान्ते नटन्या भुवः । न्यक्कारो वलिनः कुले द्विजकुलप्राचीनपुण्यारप्रस्तारः स हरेः सहस्रकरजिल्लीलावतारः परः ॥ ४ ॥ अलंकरिष्यन् स महेन्द्रपीठमुत्कण्ठया भक्तजनस्य भूयः । वियोज्यमानक्षितिखेदशांत्यै प्रतापनाम्नावतरं बभार ॥५॥ स्वर्गापवर्गफल - - - - - दज्ञा यज्ञाशनो हिताः स्वहितानुरागात्। तत्पूजनोपनिषदः कलिकालसिन्धौ यः कर्णधार इव ताः पुनरुद्दधार ॥ ६॥ सदा सेव्यः स्वादुः परमचपळालेनलघुः श्रुतीनामध्वानं जलकलकले नाविदलयन् ।