________________
168
EXTRACTS FROM MANUSCRIPTS
नयविनयविनिद्रः पुण्यलक्ष्मी समुद्रः समरसमयरुद्रः पुंजराजो नरेंद्रः ॥ १३ ॥ यस्याभाति सभातिरस्कृतमदप्रहृप्रभावोद्धुरक्षोणी मंडनमंडलेश्वरमहाराजन्यमान्यान्विता । विद्यावदविनोद मोद विभवद्रोमांच विद्वद्वचो
जाग्रद्रूपसरस्वतीनिवसतिर्लक्ष्मीविलासायिता ॥ १४ ॥ अनुजे गुणवत्युदारचित्ते गुरुदेवद्विजभक्तिभाजि मुंजे । य उपाहितराजकार्यभारः प्रभुतासौख्यमनाकुलं बिभत्त ।। १५ ।। रसोल्लसितया गिरा चतुरचित्तमानंदयन्
कलासु सकलासु यः कलितकेलिकौतूहल: ।
विमत्सरतया दधन्निखिलशास्त्रतत्वज्ञतां
करोति करुणाकरो वनमनीषिसंमाननाम् ॥ १६॥ प्रतिगृहमभिगम्य स्वर्णनिष्कान्वितानामुपचितकतकानां मोदकानां प्रदानः ।
विदलितदुरवस्थान लक्ष्यसंख्यान गृहस्थान्
अतुलितमहिमा यः क्षाम कालेभ्यनंदत् ॥ १७ ॥
अनिवारितवांछितार्थदानैरतिदुर्भिक्षबुभुक्षयार्दितानाम् ।
गणशः समुपेयुषां जनानामकरोज्जीवितरक्षणं यदेकः ॥ १८ ॥ अनेकशो येन विधीयमानैस्तुलादिदानै रूप लब्बसंपत् । विद्वज्जनो दीव्यति विदमानः श्रीभारतीसंनिधिसख्यसौख्यम् ।। १९ ।। विबुधानमिनंदतो विपक्षक्षितिभृज्ज्ञातपराक्रमस्य (तस्य) | उदयद्युधिचापताशु शंसत्यरिनारीनयनेषु भूरिवर्षम् ॥ २० ॥ योयं रुचिरचरित्रो गुणैर्विचित्रैरपि प्रसभम् । दिग्दंतावलदतावलीव लक्षं यशस्तनुते ॥ २१॥