________________
PRESERVED AT ANHILWAD PATAN.
167
तत्सेवितो ललितलक्षणकांत मूर्तिराशाप्रसादनकरः सदनं कलानाम् । जैवातृकः कुवलयप्रथितोपकारः पामाभिधान उदियाय ततो नृसोमः ॥ ४ ॥ प्रथितविपुलश्रीश्रीमालान्ववायविशेषकः सकलजगतीजाग्रत्कीर्तिः सुधीरनसूयकः । अमितविभवो गोवासाधुस्ततोऽजनि जानकीरमणचरणप्रेमानंदादुदंचितसात्विकः ॥ ५ ॥
तत्सुतः सुकृतशोभितसंपत्प्रीणितावनिवनीपक आसीत् । वैभवेष्यविकृतो भुवि मूर्तः पुष्पराशिवि यांपचसाधुः || ६ || अभूत् कुटुंबस्थितिभारधारिणी नदी यदीया सहधर्मचारिणी । सदान्नदानावृतक्षिया जनं कुशेशयाकारशया पुपोष या ॥ ७ ॥ तन्नंदनौ सुमतिसाधितपौरुषार्थाचापनिमग्नजनतोद्धरणे समर्थौ । ख्यातौ गणैर्जगति जीवनमेव संज्ञावाज्ञावशीकृतनृपौ सरुपावभूताम् ॥ ८ ॥ श्रीविलासवतिमंडपदुर्गे स्वामिनः खलचिसाहिगयासान् । प्राप्य मंत्रिपदवीं भुवि याभ्यामजितोर्जितपरोपकृतिश्रीः ॥ ९ ॥ जीवनो भुवनपावनकीत्तिः मंत्रिभारमनुजे विनिवेश्य | ब्रह्मवित् स जगदीश्वरपूजा कौतुकेन समयं समनैषीत् ॥ १० ॥ नमदवनसमर्थतत्त्वविज्ञानपार्थः सुजनविहिततोषः श्रीनिधितदोषः ।
अवनिपतिशरण्यात्प्रौढधीर्मेघमंत्री
मफरलमलिकाख्यां श्रीगया सादवाप ॥ ११ ॥
पतिव्रती जीवनधर्मपत्नी धन्या मकूनाम कुटुंबमान्या । श्रीपुंजराजाख्यमसूत पुत्रं मुंजं च तैस्तैश्चरितैः पवित्रम् ॥ १२ ॥
जयति मदनमुद्रः मज्जनप्रेम सांद्रः सगुणमणिसमुद्रः कीत्तिविद्योत चंद्रः ।