________________
164
EXTRACTS FROM MANUSCRIPTS
No. 7. Upadesamalavachuri [उपदेशमालावचूरि :].
Leaves 1 to 15.
Ends:
उपदेशमालाप्रकरणावचूरिः समाप्ता - लिखिता श्रीतपागच्छाधिराजसोमसुंदरसरिशिष्यपंडितविवेक समुद्र गणिशिष्याणुनामरचंद्रेणगणिना स्वपरोपकाराय संवत् १९१८ वर्ष फाल्गुन ११ दिने बुधवारे कर्करामहानगरे || श्री श्रमण संघस्य श्रीरस्तु ॥
उपदेशमालाप्रकरणं श्रोधर्मदासगणना स्वपुत्रप्रतिबोधायकृतमित्याज्रायः ॥ स चैवम्
विजयविजयपुरे विजयसेनो राजा तस्य जयाजयौ देव्यौ जयादेव्या रणसिंहपुत्रो दीक्षां जग्राह । स च जातमात्र एव अजयादेव्या छद्मना त्याजितः । कतिचिद्वत्सरांते ज्ञातो अजयावृत्तांतः । पुत्रं राज्ये संस्थाप्य संजातवैराग्यो विजयसेनराजा जयादेवी भ्रातृविजयसहितः श्रीमहावीरपार्श्वे दीक्षां जग्राह । एकादशांगीमधीतवान् । अत्युग्रतपोविशेषाद्विजयसेनराजर्षेरवविज्ञानमुत्पेदे । धर्मदासगणिलोंके नाम प्रसिद्धम् । तेन व स्वपुत्रस्य रणसिंहस्य प्रातस्वराज्यत्य कलिच्छलनामालोक्यदें प्रकरणं चक्रे तस्य पठनाय । ततश्व पुत्रमातुलस्य विजयर्षेः सर्वे संभाल्य प्रोक्तं । यःप्रस्तावे त्वयैतत्प्रकरण पठनोपदेशपूर्व रणसिंहो बोधनीयः । अन्यदा । विजयमहार्षेर्जया साध्वीयुतस्तीर्थयात्रां कुर्वन् विजयपुरे समायातः । तमागतं श्रुत्वा रणसिंहनृपो मुनिं वंदितुं गतः । स च तेन पितृवृत्तांतभवनपूर्वमुपदेशमालां श्रावितः सकृच्छ्रवणेपि तस्य कंठगता जाता । ततश्चार्थं परिभावयतस्तस्य वैराग्यं जातं क्रमेण दीक्षां लावा शिवं जगामेति बृद्धाम्नायः ॥ इति श्रोउपदेशमालोत्पत्तिप्रबंधः ।
"