________________
PRESERVED AT ANHILWAD PATAN.
149
अनल्पमतिभिः साध्यमल्पधीरपि भक्तितः । ब्रुवे विवरणं किंचिद्वीतरागस्तवानुगम् ॥ २ ॥
Commentary ends : इति वीतरागस्तोत्रे विंशतितमस्याशीःस्तवस्य पदयोजना ।। चांद्रे कुलेस्मिन्नलघुश्चरित्रैः प्रभुर्बभूवाभयदेवसूरिः । नवांगवृत्तिच्छलतो यदीयमद्यापि जागर्ति यशःशरीरम् ।। १ ।। तस्मान्मुनींदुर्जिनवल्लभोथ तथा प्रथामाप निर्गुणोधैः । विपश्चितां संयमिनां च दुर्गे धुरीणता तस्य यथाधुनापि ॥ २ ॥ तेषामन्वयमंडनं समभवत्संजीवनं दुःषमामूर्छालस्य मुनिव्रतस्य भवनं निःसीमपुण्यश्रियः । श्रीमंतोभयदेवसरिगुरवस्ते यद्वियुक्तैर्गुणैद्रष्टुं तादृशमाश्रयांतरमहो दिग्चक्रमाक्रम्यते ॥ ३ ॥ यतिपतिरथ देवभद्रनामा समजनि तस्य पदावतंसदेश्यः । दधुरधरितभावरागयोगाज्जगाति रसायनतां यदीयवाचः ॥ ४ ॥ तदीयपट्टे प्रतिभासमुद्रे श्रीमत्प्रभानंदमुनीश्वरोऽभूत् । स वीतरागस्तवनेष्वमीषु विनिर्ममे दुर्गपदप्रकाशम् ॥ ५ ॥ एवं सपादशतयुतविंशतिशतपरिमितः प्रबंधोयम् । प्रथमादर्श गणिना लिखितो हर्षेटुना शमिना ॥ ६ ॥ सोमसुंदरसरिभ्यो नमः ॥