SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ EXTRACTS FROM MANUSCRIPTS 148 बोधिबीजमुपस्कर्तु तत्त्वाभ्यासेन धीमताम् । जैनसिद्धांतसूत्राणां तेषां वृत्तिर्विधीयते ॥ २ ॥ ननु यदि भवदीयानीमानि जैनसिद्धांतसूत्राणि तार्ह भवतः पूर्वे कानि किमियानि वा तान्यासन्निति । अत्यल्पमिदमन्वयुक्थाः पाणिनिपिंगलकणादाक्षपादादिभ्योपि पूर्व कानि किमियानि वा व्याकरणादिसूत्राणि ते तदपि पर्यनुयुड्क्ष्व । अनादय एवैता विद्याः संक्षेपविस्तरविवक्षया नवनवीनवंति तत्तत्कर्तृकाश्चोच्यन्ते। किं नाश्रोषीन कदाचिदनीदृशं जगदिति । यदि वा प्रेक्ष्यस्व । वाचकमुख्यविरचितानि सकलशास्त्रचूडामणिभूतानि तत्त्वार्थसूत्राणीति यद्येवमकलंकधर्मकीर्त्यादिव प्रकरणमेव किं नारभ्यते किमनया सूत्रकारवाहोपुरुषिकया । मैव वोचः । भिन्नरुचिये जनस्ततो नास्य स्वेच्छाप्रतिबंधो लौकिकराजकीयं वा शासनमस्तीति यत्किचिदेतत्तत्र वर्णसमूहात्मकैः पंचभिरध्यायैः शास्त्रमेतदारचयदाचार्यः । तस्य च प्रेक्षाव प्रवृत्त्यंगमभिधातुमिदमादिमूत्रम् । अथ प्रमाणमीमांसा । अथेत्यस्याधिकारार्थत्वात् ।। .. इत्याचार्यश्रीहेमचंद्रविरचितायाः प्रमाणमीमांसायास्तद्वृत्तेश्च प्रथमाध्यायस्य प्रथमाहिकम् ।। Ends: अयं च प्रागुक्तश्चतुरंगो वादः । कदाचित्पत्रालंबनमप्यापेक्षतेऽतस्तलक्षणमत्रावश्याभिवातव्यम् । यतो नाविज्ञातस्वरूपस्यास्यावलंबनं जयाय प्रभवति । नचाविज्ञातस्वरूपं परतंत्रं भेत्तुं शक्यमित्याह । प्रमाणमीमासातर्कोऽयम् ॥ Commentary begins : उ नमः परमात्मने ॥ अनंतदर्शनज्ञानवीर्यानंदचतुष्टयम् । संस्मृत्य परमात्मानमनाहतमहःश्रियम् ॥ १ ॥
SR No.007582
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 5
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1896
Total Pages420
LanguageEnglish
ClassificationBook_English & Catalogue
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy