SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ EXTRACTS FROM MANUSCRIPTS 146 अपि च । रामात्पूर्व मधुरा व्यक्तं वाचो वपुष्मतां नासन् । कथमन्यथा सुधार्थ ममंथुरमृतांधसः सिंधुम् ॥ नेपथ्ये--अत्यल्पमाभिदधासि । नयविनयक्रमविक्रमादयोपि महापुरुषगुणा रामात्पूर्व वपुष्मतां नासन् । सूत्र--सरोषम् । मारिष, कोयं पुनःपुनरस्मानंतरयति । चंद्र० ननु कथितं वातकी कोप्येषः । पुनर्विमृश्य--भाव । अमी कृतज्ञविज्ञचूडामणयः सभासदो भवदीयस्य नाट्यकलाकौशल्यपात्रं नापरे । सूत्र--मारिष । हृदयंगममभिदधासि । यतः-- उच्चरणलब्धकीर्तेराज्ञारहितस्य लक्षणयुतस्य । रामस्य वनं शरणं जितपरकलभस्य शरभस्य ॥ नपथ्ये। आः क्रूरनटखेट किमिदं राज्याभिषेकपर्वणि रामस्य बनप्रस्थानमावेदयास । सूत्र० विलोक्य । कथमयं गंधर्वकभूमिकावाही कुशीलवः पुनःपुनरस्मानंतरितवान् । तदेहि मारिष करणीयांतरमनुतिष्ठामः । इति निःक्रांती प्रस्तावना। ततः प्रविशति कंचुकी गंधर्वकः ॥
SR No.007582
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 5
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1896
Total Pages420
LanguageEnglish
ClassificationBook_English & Catalogue
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy