________________
PRESERVED AT ANALWAD PATAN.
145
चंद्र० साक्षेपम्
पंचप्रबंधमिषपंचसुखानकेन विद्वन्मनःसदास नृत्यति यस्य कीर्तिः । विद्यात्रयीचणमचुंबितकाव्यतंद्र
कस्तं न वेद सुकृती किल रामचंद्रम् ॥ ५ ॥ किं तु द्रव्यालंकारनामा प्रबंधोनभिनेयत्वेन तावदास्ताम् । अपरेषां राघवाभ्युदययादवाभ्युदयनलविलासरघुविलासानां चतुर्णा रमणीयतमसध्यंगनिवेशानां विशदप्रकृतीनां पुनर्मध्ये कुत्र प्रजानामनुरागः ॥ नेपथ्ये। प्रजानां प्रथमे कैकेय्याः पुनर्द्वितीये । सूत्र सरोष कोयमावयोरंतराले प्रलपति । चंद्र० कृतममुष्य वातकिनः प्रलापेष संरंभेण । प्रस्तुतमभिधीयताम् । सूत्र० प्रजानां रघुविलासनामान चतुर्थे प्रबंधे अनुरागः ।
चंद्र०
रामचंद्रसूक्तेषु कमसाधारणं गुणं संभावयति भावः । सूत्र०
व्युत्पत्तिर्मुखमेव नाटकगुणन्यासे तु किं वर्ण्यते सौरभ्यप्रसवा नवा भणितिरप्यस्त्येव काचित्वचित् । यं प्राणान् दशरूपकस्य स करोत्क्षेपं समाचक्षते
साहित्योपनिषद्विदः स तु रसो रामस्य वाचां परम् ।। P663-19