________________
122
EXTRACTS FROM MANUSCRIPTS
तादृशि कलिकालेऽपि विदधे तेन सत्क्रिया । यथा देवागमस्तस्य पंचवे समजायत ॥ ८ ॥ ताच्छष्यः सत्कलापात्रं राकापक्षकृतोदयः । श्रीचंद्रसूरिरित्यासीच्छ्रीचंद्र सदृशी भुवि ॥ ९ ॥ तस्य शिष्यो गिरामीशो नित्यं सुखविहारभृत् । श्रीदेवसूरिनामाऽभूत् देवसरिरिवावनौ ॥ १० ॥ देवसरिगुरोः शिष्या विख्याताः पृथिवीतले । जयंति गुरवः श्रीमत्तिलकप्रभसूरयः ॥ ११ ॥ सुभाषितावली रम्या यैश्चक्रे सुकविप्रिया । . विदधे नीतिशास्त्रं च चाणक्यभिव नूतनम् ॥ १२ ॥ ' स्तुतिस्तोत्रादिरचना विचित्रा विहिता यः । दीक्षिता पाठिताश्चापि यैरनेके च साधवः ॥ १३ ॥ तैराचार्यपदे स्वीयौ सुशिष्यौ विनिवेशितौ । गुरुच्छासो भारकर्षणे धुर्याविव ॥ १४ ॥ मोहराजचमुर्येन सबला लीलया जिता । स श्री वीरप्रभः सूरिराद्यो ऽनेकगुणास्पदम् ॥ ११ ॥ स्वकीयप्रभया भव्यचकोरानंददायकः । यथार्थनामा श्रीसोमप्रभसूरिर्द्वितीयकः ॥ १६ ॥ श्रीवीरप्रभसूरीणां तेषां शिष्यलवो ऽस्म्यहम् । सविशेषकलाभ्यासं बृहत्पूज्यैश्च कारितः ॥ १७ ॥ श्रीवीरप्रभसूरीणां पदे ऽहं स्थापितोस्ग्यहम् । कृत्वा प्रसादं पूज्यैः श्रीतिलकप्रभसूरिभिः ॥ १८ ॥ भावनासारसच्छास्त्रं सामान्येन कृतं मया । इह सूरिपदस्थेन श्रीशांतेश्चरितं तथा ॥ १९ ॥