________________
PRESERVED AT ANHILWAD PATAN. सूर्याचंद्रमसौ यावद् द्योतयेते महीतलम् । जयतात्पुस्तकं तावद्वाच्यमानं मुनिवजैः ॥ १ ।।
'_No. 74. Santinathacharitra, by AJITAPRABHAS URI | शान्तना - थनरित्रम्-अजितप्रभसूरिः].
Ends: . इत्याचार्यश्रीअजितप्रभसूरिविरचित्ते द्वादशभववर्णनो नाम षष्ठः प्रस्तावः।। श्रीशांतिनाथचरित्रं समाप्तम् ॥ . श्रीजंबुप्रभवौ सुधर्मगणभृच्छिष्यावभूतां पुरा श्रीशय्यंभवनामको भुन्नि यशोभद्रस्ततो विश्रुतः । संभूतः प्रभुभद्रबाहुरभवच्छीस्थूलभद्रस्ततो जाता आर्यमहागिरिप्रभृतयः श्रीवत्सरिस्तथा ॥ १ ॥ श्रीवज्रसेनाख्यगुरोः प्रवृत्ताः शाखाश्चतस्रः सुतरोरिवोाम् । तासां च मध्ये वरचंद्रशाखा विशेषतः शिष्यफलान्विताऽभूत् ।। २ ।। मिथ्यात्वकुंभिविजये सिंहबच्चारुविक्रमः । श्रीमद्विजयसिंहाख्यस्तत्रमूरिवरोऽभवत् ॥ ३ ॥ चंद्रावत्यो नवगृहे स चैत्ये निवसन्नपि । ' जज्ञे चारित्रपूतात्मा विद्याशक्तिसमन्वितः ॥ ४ ॥ रम्योपदेशमालाया वृत्तेाख्यां प्रकुर्वतः। . विरागाच्चैत्यवासस्य तस्याभूत् शुभचेतसः ॥ ५॥ . श्रीचंद्रप्रभसूरीणां समीपे सोऽवसद्गुरुः । ..... आगमोक्तक्रियां कर्तुं पूर्णिमापक्षमाश्रितः ॥ ६॥ तस्य श्रीविजयसिंहसूरेः शिष्योऽभवद्वरः । भुवि ख्यातोऽभयदेवरिः साधुक्रियापरः ॥ ७ ॥
B669-16