________________
115
PRESERVED AT ANHILWAD PATAN. तत्पट्टनभास युगपल्लब्धोदयौ परोपकृतिकुशलौ । नव्यौ रविचंद्राविव विदितौ शिष्यावजनिषाताम् ॥ ३ ॥ तत्रैकोभिनवरविः श्रीश्रीप्रभसूरिरहतगुरुतेजाः । कुवलयविबोधहेतु. सदाप्यंनस्तमितमहिमा च ॥ ४ ॥ विमलसदासुवृत्तो द्योतितपक्षद्वयस्त्यक्तदोषः । श्रीसोमप्रभसूरिनवीनः सोमप्रभश्चान्यः ॥ ६॥ तत्र श्रीप्रभसूरिः श्रुतोदवेरमृतमिव समुद्भूत्य । श्रीधर्मविधेः सूत्रं सवृत्तिकं सूत्रयामास ॥ ६ ॥ तदनुस्फुटार्थवत्पपि सुराक्षिताप्यस्य भूधनस्येव । वृत्तिर्जगाम शिखि३शर भास्कर १२मितवर्षजे भंगम् ॥ ७ ॥ अथ तस्य श्रीप्रभसूरेः शिष्याश्चतुर्दिशं विदिताः । समधिगतचतुर्विद्या अमी बभूवुश्चतुःसंख्याः ॥ ८ ॥ श्रीभुवनरत्नसूरिः श्रीनेमिप्रभमुनीश्वरस्तदनु । श्रीमन्माणिक्यप्रभसरिर्महीचंद्रसूरिश्च ॥ ९ ॥ दीक्षागुरुराद्यतमो यस्याभून्मातुलो द्वितीयस्तु । शिक्षागुरुस्तृतीयः पदप्रतिष्ठागुरुस्तुर्यः ॥ १० ॥ स श्रीमाणिक्यप्रभगुरु सेवी स्वगुरुबंधुसंमत्या । आचार्य उदयसिंहश्चक्रे श्रीधर्मविधिवृत्तिम् ॥ ११ ॥ श्रीमत्पूज्यरविप्रभमुनिपतिपदकमलमंडनमरालः । वृत्तिमशोधयदेनां महाकविविनयचंद्राख्यः । सद्वत्तिकुमुदिनीय विचकासे विमलचंद्रसाहाय्यात् ॥ १२ ॥ चंद्रावतीनगर्यां तन्दवा श्रेष्ठिसोमदेवस्य । प्रथमप्रतिमप्रतिमामिह राजीमत्यलीलिखत ॥ १३ ॥