________________
114
EXTRACTS FROM MANUSCRIPTS
यच्चायुक्तार्थमहं मुग्धमतिर्वच्मि किंचिदप्यत्र । पुत्रापराधवत्तद्विबुधैर्मम सह्यतां सर्वम् ॥ ८ ॥ सज्जनमुदेऽत्र सूक्तं यच्चान्यद्दुष्टतुष्टये तदपि । द्वेधापि परोपकृतेर्मम श्रमः सफल एवासौ ॥ ९ ॥ यद्याह परो वायसदशनपरीक्षेव निरभिधेयमिदम् । अपिचाप्रयोजनं खलु कंटकशाखोपमर्द्दनवत् ॥ १० ॥ दश दाडिमानि पूपाः षडिति वचोवत्तथा न संबद्धम् । इत्यादिहेतुनिवहस्यासिद्धत्वप्रकटनाय ॥ ११ ॥ प्रेक्षावतां प्रवृत्यै शास्त्रादावादिमंगलार्थं च । प्रकरणकारः प्रथमं गाथामेकामिमामाह || १२ ॥ Text begins :
नमिऊण वद्धमाणं तियसिंदन रिंदविहियवहुमाणं । बुच्छं सपरहियत्थं धम्मविहिमहं समासेण ॥ १ ॥
व्याख्या ॥
सांप्रतं ग्रंथकारो धर्मविधिविधायिनां शास्वतफलावापल्या ग्रंथसमार्ति
कुर्वन्नाह—
एयं सिरिधम्मवििार्हं ।सरिसिरिपहसूरिणा समाइउं । जं आयरंति सम्मं लहंति ते सासयसुहीइं ॥
श्रीधर्मविधिं श्रीश्रीप्रभसूरिनाम्ना आचार्येण समुपदिष्टं ये भव्या आचरंति सम्यक् ते लभंते शास्वत सुखानीति गाथार्थः ॥
इति विवृतं धर्म्मविधेः श्रीश्रीप्रभसारोभिः कृतं सूत्रम् । अथवास्य वृत्तिकारः स्वगुरुक्रममाह संक्षेपात् ॥ १ ॥ श्रीचंद्रगच्छकमला कंठालंकारतारहारनिभः । श्रीसर्वदेव सूरिभूरिगुणो भूर्द्धवि ख्यातः ॥ २ ॥