________________
92
EXTRACTS FROM MANUSCRIPTS
शचीव देवराजस्य रोहिणीव सितयुतेः । सद्वासनेव धर्मस्य लक्ष्मीस्तस्य प्रियाऽभवत् ॥ ४ ॥ अचलस्थितिः कुरंगव्याघाती नरवरवृत्तिसंयुक्तः । सिंह इव वैरसिंहः सुतः सुता चानयोर्मादूः ॥ ५ ॥ गेहिनी गेहनीतिज्ञा तस्य श्रीरिव देहिनी। अभूदानलदेवीति धर्मकर्मसु कर्मठा ॥ ६ ॥ असूत सा पंच सुतान् मनुष्यक्षेत्रस्य धात्रीव सुमेरु पर्वतान् । परं सदाप्येकसुखत्वमेषां केषां न रेखाकरमस्ति चित्ते ॥ ७ ॥ आद्योऽस्ति भांडशालिकमदनो लाडिपतिर्जिनप्रतिमाः । कारितवान् मंगलपुरचैत्ये पुण्याय पितृमात्रोः ॥ ८ ॥ प्रवरां वेलाकूले पौषधशालां च मातृपुण्याय । तनया विनयादिगुणोपेताः पंचास्य विद्यते ॥ ९॥ क्षेमसिंहभीमसिंही तेजःसिंहारिसिंहको । पंचमो जयसिंहस्तु दुहिता जासलाभिधा ॥ १० ॥ प्रथमोपि धर्मकार्ये द्वितीयीकस्तु- लघुबंधुः । कलिकालमत्तकरिवरसिंहो विजयसिंहोस्ति ॥ ११ ॥ यथा प्रभा प्रभाभर्तुर्यथा चंद्रस्य चंद्रिका । यथा छाया शरीरस्य तथाशेषगुणाश्रया ॥ १२ ॥ पूनी दयिताऽस्योदयपालोदयमतसुता विरेजे या । निजवंशप्रासादे विमलगुणा वैजयंतीव ॥ १३ ॥ युग्मम् ॥ आद्योस्ति राजसिंहस्तत्तनयो जैत्रसिंह इतरस्तु । नायकिसहजलसोहगपालनाम्न्यस्तु पुत्रय इमाः ॥१४॥