________________
PRESERVED AT ANHILWAD PATAN.
आशापाल इति प्रसिद्ध गरिमा तेषां गरीयानयं मध्यश्चाजय इत्यनुगुणाध्यात्मकधन्याशयः । चक्रे ज्ञानविलासकीर्तनमसौ शास्त्रं पुमर्थात्मकं । पुण्यात्माऽमृतपाल इत्यसमधीपात्रं तृतीयस्त्वयम् ॥ २० ॥ अरिसिंहस्य तथाल्हणदेवीति निवीतकलुषा पत्नी ॥ रत्नत्रयामेव जिनवागजीजनत्तनुज नित्रितयम् ॥ २१ ।। आशाधरस्तेषु सधीरधीती समग्रशास्त्रेषु किलाग्रिमोऽस्ति । विमध्यमश्चाल्हणसिंहनामा प्रज्ञागरिष्ठोऽभयदः कनिष्ठः ॥ २२ ॥ इत्येवं स्त्रकुटुंबवर्गसहितेनाभ्यर्थितो मांत्रेणा
श्रीजैत्रेण विवेकिना निजपितुः श्रेयः श्रियोवृद्धये । एतां वृत्तिमुवाच तत्कुलगुरुः श्रीबालचंद्राख्यया विख्यातोऽधिपतिर्गणस्य गणिनीरत्नश्रियो धर्मजः ॥ २३ ॥ देवानंद मुनीं दुगच्छ गगनालंकारशीतद्युतेः शिष्यः श्रीकनकप्रभाख्यसुगुरोस्त्रैविद्यचूडामणेः । श्री बालेंदु कवींद्र पाणिकमलोन्मीलप्रतिष्ठः सुधीरेतस्यां सहकारिकारणमभूत्प्रद्युम्न सूरिः पुनः ॥ २४ ॥ एतां शोधयति स्म विश्रुत वृहद्गुच्छांवरश्रीशिरोरत्नं किंच धनेश्वरस्य सुगुरोः पोदयाद्री रविः । छंदोलंकृतितर्कलक्षणचणः सिद्धांतशुद्धाशयः । साहित्योपचयप्रपंचनविभुः श्रीपद्मचंद्रः प्रभुः ॥ २५ ॥ उत्सूत्रं यदसूत्रि सूत्रविकलेनालक्षणं लक्षणन्यूनेन श्लथरीति रीतिरिपुणा व्यर्थं हतार्थेन च । किंचित् क्वापि वचो मया प्रलपितं स्वच्छंदमच्छंद सा तच्छोध्यं विबुधैः परैरपि परं कृत्वा प्रसादं मयि ।। २६ ।।
B 669-7
49