________________
43
EXTRACTS FROM MANUSCRIPTS.
तस्योपदेशपदपेशललेशमाप्य वारांमुचेव कियदेव पयः पयोधेः । श्रीआसडेन कविना जानतोपदेशकंदल्यसावसुमतामुपकारहेतोः ॥ १२ ॥ किंच तत्पट्टपर्वतमलंकुरुते स्म कर्मव्यालावलीहरियुवा हरिभद्रसूरिः । भूम्ना यदीयचरणोपनतैरशोभि मुक्ताफलोज्वलतमैजर्गती यशोभिः ॥ १३ ॥ शिष्यस्तस्य विभोर्नमस्यचरणांभोजस्य जज्ञे महासाहित्योपनिषन्नभोंगणराविः श्रीबालचंद्रः कविः । यं स्वप्नांतमुपेत्य तदृढतरानुध्यानतुष्टा जगी मत्पुत्रस्त्वमसीति शीतलगिरा देवी गिरामीश्वरी ।। १४ ।।
इतश्च
आसडस्य मृडस्येव गौरीगंगे बभूवतुः । पृथिवीदेवीजैतल्लदेव्यौ द्वे तस्य वल्लभे ॥ १६ ॥ जैतल्लदेव्यां तनयावभूतां द्वावेतयोराजडनामधेयः । ज्येष्ठोतिविद्वान् कवयोभिदध्युर्बाल्येपि यं बालसरस्वतीति ॥ १६ ॥ दुर्वत्तानां शंकनीयः कनीयान् मंत्री जैत्रः सिंहवज्जैत्रसिंहः । मुद्रा सव्या त्यागिनोऽस्यापसव्या चापव्यापाराद्भुतस्याप हस्तम् ॥ १७ ॥ अरिसिंह इति च पृथिवीदेव्यां करपुष्करश्रवद्दानः । गुरुगिरिपरिणतकर्मा गज इव कलभोंगजः समभूत् ॥ १८ ॥ मंत्रिणो जैत्रसिंहस्य पत्नी जल्हणदेव्यसौ । त्रीनसूत सुतान् वेदानिव वाणी प्रजापतेः ॥ १९ ॥