________________
38
धुर्यौ धर्मरथस्य सर्वजगतः सूच्चावलोके दृशौ । निर्वाणावसथस्य तोरणमहास्तंभावभूतामुभावेकः श्रीमुनिचंद्रसूरिरपरः श्रीमानदेवप्रभुः ॥ तयोर्बभूवाजितदेवसूरिः शिष्यो बृहद्गच्छनभः शशांकः । जिनेंद्रधमीबुनिधिः प्रपेदे घनोदकः स्फूर्तिमतीव यस्मात् ॥ श्रीदेवसूरिप्रमुखा बभूवुरन्येपि तत्पाद पयोजहंसाः । येषामबाधारचितस्थितीनां नालीकमैत्री मुदमाततान ||
EXTRACTS FROM MANUSCRIPTS
विशारद शिरोमणेरजितदेवसूरेर भूक्रमांबुजमधुत्रतो विजयसिंहरिः प्रभुः । मितोपकरणक्रियारुचिरनित्यवासी च यश्चिरंतनमुनित्रतं व्यधित दुःखमा
यामपि ॥ तत्पट्टपूर्णाद्रिसहस्त्ररश्मेः सोमप्रभाचार्य इति प्रसिद्धः । श्रीहेमसूरेश्व कुमारपालदेवस्य चेदं न्यगदच्चारित्रम् || सुकविरिति न कीर्ति नार्थलाभं न पूजामहमभिलषमाणः प्रावृतो वक्तुमेतत् । किमुत कृतमुभाग्यां दुष्करं दुःखमायां जिनमतमतुलं तत्कीर्तनात्पुण्यमिच्छुः ॥ धर्मे निर्मलतामा तुलां श्रीहेमचंद्रप्रभोभक्ति व्यर्जितमद्भुतां भणितिषु द्रष्टुं पराभौचितीम् । श्रोतुं चित्रकवेश्चमत्कृतिकृतः काव्यं च लोकोत्तरं कर्तु कामयसे यदि स्फुटगुणं तद्ग्रंथमेतं शृणु ॥ प्राग्वाटान्वयसागरें दुरसमप्रज्ञः कृतज्ञः क्षमी वाग्मी सूक्तिसुधानिधानमजान श्रीपालनामा पुमान् । यं लोकोत्तरकाव्य रंजितमतिः साहित्यविद्यारतिः