________________
176
EXTRACTS FROM MSS.
पयोधरोन्मुक्तमिवांबु भूधरा विध्या[धा]य मूर्ध्नि प्रथयंतु भूतले ।। ४९ ॥ सुपृष्टमुत्सृष्टमुदात्तशब्दकैनवं पुराणं च पुराणवारि सत् । महानुकूलैर्जनतासरित्कुलैश्चतुःसमुद्रातमिदं प्रतन्यते ॥ ४९ ।। जयंति देवाः सुरसंघसेविताः प्रजातिशांतिप्रदशांतशासनाः । विशुद्ध कैवल्यविनिद्रदृष्टयः सुदृष्टतत्त्वा भुवने जिनेश्वराः ॥ २०॥ जयत्वजय्या जिनधर्मसंततिः प्रजास्विह क्षेम सुभिक्षमस्त्वतः । सुखाय भूयात्प्रतिवर्षवर्षणैः
सुजातसस्या वसुधाऽसुधारिणम् ।। ५१ ॥ शाकेष्वब्दशतेषु सप्तसु दिशं पंचोत्तरेषूत्तरां पातींद्रायुधनानि कृष्णनृपजे श्रीवल्लभे दक्षिणाम् । पूर्वी श्रीमदवंतिभूभृति नृपे वत्सादिराजेऽपरां सौर्याणामथ मंडलं जययुते वीरे वराहेऽवति ।। ५२।। कल्याणैः परिवर्धमानविपुलश्रीवर्धमाने पुरे श्रीपार्थालयनन्नराजवसतौ पर्याप्तशेषः पुरा । पश्चादोस्तटिकाप्रजाप्रजनितप्राज्यार्चनावर्च[ज]ने शांतेः शांतिगृहे जिनेश्वरचिते वंशो हरीणामयम्।।३।। व्युत्सृष्टापरसंघसंततिबृहत्पुनाटसंघान्वये प्राप्तः श्रीजिनसेनसूरिकविना लाभाय बोधेः पुनः ।