________________
PURCHASED FOR GOVERNMENT.
महोपसर्गे शरणं सुशांतिकृत्
सुशाकुनं शास्त्रमिदं जिनाश्रयम् ॥ ४३ ॥ प्रशासनाच्छासनदेवताश्च या
जिनांश्चतुर्विंशतिमाश्रिताः सदा ।
हिताः सतामप्रतिचक्रयान्विताः
प्रयाचिताः सन्निहिता भवंतु ताः ॥ ४४ ॥ गृहीतचक्रा प्रतिचक्रदेवता तथेोज्जयंतालयसिंहवाहिनी |
शिवाय यस्मिन्निह सन्निधीयते
क्व तत्र विघ्नाः प्रभवंति शासने ।। ४५ ।।
महोरगा भूतपिशाचराक्षसा
हितप्रवृत्तौ जनविघ्नकारिणः |
जिनेशिनां शासन देवतागण -
प्रभावशक्त्याथ समं भयंति ते ॥ ४६ ॥ प्रकाममोक्षांकित का मसिद्धयः
प्रसिद्धधर्मार्थविमोक्षलब्धयः ।
भवंति तेषां स्फुटमल्पयत्नतः
पति भक्त्या हरिवंशमत्र ये ।। ४७ ।।
निवार्य मात्सर्यमवार्यवीर्यया
धिया सुधैर्योर्जितया जिनादराः | अनार्यवर्याः सहिताः सपर्यया पुराणमार्याः प्रथयंतु विष्टपे || ४८ ॥ किं मेऽथवा प्रार्थनया यतस्ततः स्वभावतो विश्वभरक्षमाविदः ।
175