________________
146
EXTRACTS FROM MSS.
सौजन्यवल्लीजलदः कृतोऽयं तद्योगतो व्याकरणप्रवीणः ॥ ३० ॥ कविर्महादेव (इति)प्रसिद्धस्तन्मित्रमास्ते द्विजवंशरलम् । महीतले नूनमसौ कृतश्व साहाय्यतस्तस्य सुधर्महेतोः ।। ३१ ॥ ग्रंथः कृतोऽयं जिननाथभत्त्या गुणानुरागात् रागाच]महामुनीनाम् । पूजाभिधानाद्रहितेन नित्यं
महाप्रशस्तः परमार्थबुद्धया ।। ३२ ॥ ये शृण्वंति चरित्रमुत्तममिदं श्रीजंबूनानो मुनेर्नानाचित्रकथाविभूषितमतिप्रावीण्यसंबोधनम् । तेषां स्याद्वहु पुण्यकर्मनिपुणा बुद्धिः शुभं भूरि च त्यत्वाशेषभवप्रसूतसुखसार्थस्याशु धर्मास्पद(म्) ॥ ३३ ॥ पठनीयं पाठनीयं शास्त्रमेतन्मुनीश्वरैः । जंबूस्वामिचरित्राढचं रोमांचजननं नृणाम् ।। ३४ ॥ संतव्यं शारदे देवि यदत्र स्खलितं मया । मोहप्रमादवशतः शुनावौ [श्रुताब्धौ]को न मुह्यति || ३५ ॥ जंबूस्वामी जिनाधीशो भूयान्मांगल्यसिद्धये । भवतां भुवि भो भव्याः श्रीवीरांतिमकेवली ।। ३६॥ एकविंशप्रमाणानि शतानि च चरित्रके । त्रिंशयुक्तानि श्लोकानां शुभानां संति निश्चितम् ॥३७॥ इति श्रीजंवूस्वामिचरित्रे विद्युचरमहामुनिसर्वार्थसिद्धिगमनो नामैकादशः सर्गः ॥११॥ सं० ३० वर्षे चैत्रसुदि १ रविवारे