________________
PURCHASED FOR GOVERNMENT.
यावत्सिद्धाः सिद्धिधामप्रपन्ना
मेर्वाद्या वै भूरिधरा भूरि संख्या: ॥ चंद्रादित्याद्याश्च खे ऽसंख्य संख्या
संतिष्ठते तावदास्तां ममायम् || ३८ | श्रीवीर गौतमाद्यैश्च श्रेणिकस्य पुर: पुरा । यदुक्तं तच्च संक्षिप्य मयापीह निरूपितम् || ३९ ॥ सिद्धांत शब्दयुक्तयादिविरुद्धं यन्मयोदितम् | क्षमितव्यं मुनीशैस्तत्सर्वशास्त्राब्धिपारगैः || ४० ||
न्यूनमक्षरमात्राद्यैरज्ञानान्मयकात्र यत् |
प्रोक्तं क्षमस्व तदेवि सारदे श्रीजिनास्यजे ॥ ४१ ॥ जिनसिद्ध सूरिपाठक साधुमुनींद्राश्चतुर्विधस्य संघस्य | विदधतु मंगलमतुलं भुक्तिं मुक्तिं च यच्छंतु ॥ ४२ ॥ सहस्रत्रितयं चैव त्रिशतं त्र्यशीतिसं[शी त्या ] युतम् । अनुष्टुप्छंदसां चास्य प्रमाणं निश्चितं बुधैः || ४३ ॥
135
इति श्रीभट्टारक श्रीशुभ चंद्र शिष्याचार्य श्रीसकलभूषणविरचितायामुपदेशरत्नमालायां पुण्यषट्कर्मप्रकाशिकायां तपोदानमाहात्म्यवर्णनोनामाष्टादशपरिच्छेद: संपूर्णः || संवत् १७८३ वर्षे ज्येष्ठमासे शुक्लपक्षे सप्तम्यां तिथौ गुरुवासरे || शुभं भवतु || संवत् १७८३ वर्षे शाके १६४८ प्रवर्तमाने आषाढमासे कृष्णपक्षे पंचमीतिथौ बृहस्पतिवारे श्री सांगानेरनगरमध्ये महाराजाधिराजमहाराजा श्री सवाई जेसिंहजी चिरंजी० राज्ये प्रवर्त्तमाने पुस्तकं लिखापितं | श्रीमूलसंधे बलात्कारगणे सस्वतीगच्छे कुंदकुंदाचार्यान्वये नंद्याम्नाये बलात्कारगणे भट्टारक श्रीचंद्र कीर्तिस्तत्पट्टे भट्टारक श्रीदेवेंद्रकीर्तिस्तत्पट्टे भट्टारक श्रीनरेंद्रकीर्तिस्तत्पट्टे भट्टारक श्री सुरेंद्र कीर्तिस्तत्पट्टे