SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 134 EXTRACTS FROM MSS. श्रीज्ञानभूषाख्यगुरुस्तदीयपट्टोदयाद्राविव भानुरासीत् ।। २९ ॥ भट्टारकश्रीविजयादिकीतिस्तदीयपट्टे परिलब्धकीर्तिः । महामना मोहसुखाभिलाषी बभूव जैनावनिपार्श्वपादः ।। ३० ॥ भट्टारकश्रीशुभचंद्र सूरिस्तत्पट्टपंकेरुहतिग्मरश्मिः । त्रविद्यविद्यः सकलप्रसिद्धो वादीभसिंहो जयताद्धरित्र्याम् ॥ ३१ ॥ पट्टे तस्य प्रीणितप्राणिवर्गः शांतो दांतः शीलशाली सुधीमान् । जीयात्सूरिः श्रीसुमत्यादिकीति गच्छाधीशः कम्रकांतिः कलावान् ॥ ३२ ॥ तस्याभूच्च गुरुभ्राता नाम्ना सकलभूषणः । सूरिजिनमते लीनमनाः संतोषपोषकः ॥ ३३ ॥ तेनोपदेशसद्रत्नमालासंज्ञो मनोहरः । कृतः कृतिजनानंदनिमित्तं ग्रंथ एषकः ॥ ३४ ॥ श्रीनेमिचंद्राचार्यादियतीनामाग्रहात्कृतः । सद्वर्धमानाटोलादिप्रार्थनातो मयैषकः ॥ ३५ ॥ सप्तविंशत्यधिके षोडशशतवत्सरे सुविक्रमतः । श्रावणमासे शुक्लपक्षे षष्ठयां कृतो ग्रंथः ॥ ३६॥ न मया ख्यातिनिमित्तं न चाभिमानेन विरचितो ग्रंथः । धर्मरतानां गृहिणां हिताय च स्वस्य पुण्याय ॥ ३७॥
SR No.007581
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 4
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1894
Total Pages416
LanguageEnglish
ClassificationBook_English & Catalogue
File Size102 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy