________________
EXTRACTS FROM MSS.
संत्यस्यां द्वादशश्लोकसहस्राःप्तचतुःशताः । प्रत्यक्षरेण संख्यानादिति निश्चितवानहम् ॥ ११ ॥ यावद्विजयते तीर्थं श्रीमदीरजिनेशितुः । तावदेषा मरालीव खेलतात्कृतिमानाम[मानसे]॥ १२ ॥
No. 1187. उत्तराध्यनसूत्रटीका-कीर्तिवल्लभगणिः । आ°-अहं भिक्षोविनयं प्रादुःकरिष्यामि प्रकटीकरिष्यामि आनुपूर्व्या क्रमेण मे मम विनयं कथयतो वदतो यूयं शृणुत । __ च०-२७२-इति समाप्तौ ब्रवीमि । सुधर्मस्वामी जंबूस्वामिनं प्रति प्राह । इत्युक्तं षट्त्रिंशाध्ययनं जीवो जीवविभक्त्याख्यम् ॥३६॥
___ इति श्रीउत्तराध्ययनवृत्तिः संपूर्णा । आसीच्छीवीरपट्टे प्रवरगणधरः श्रीसुधर्माभिधानस्तत्पट्टे स्वामिजंबूप्रभवमुखमहासूरिराजा बभूवुः । सर्वेषा( मेव धाम्रां) स्फुटपटुपदवीभारधर्ती महेंद्रः सूरींद्राणामशेषक्षितितलविदितो मेरुतुंगो मुनींद्रः ।। १॥ तत्पडांबुजराजहंससदृशो विद्यावतामीश्वरः श्रीमच्छीजयकीर्तिसूरिसुगुरुस्तत्पट्टचूडामणिः । सूरिः श्रीजयकेसरिप्रभुगुरुस्तत्पट्टघस्रेश्वरः सिद्धांतानुगसागरो विजयते सूरीश्वरः सांप्रतम् ।। २॥ तच्छिष्यो ननु कीर्तिवल्लभगणिर्मुग्धाग्रणी मोहतो स्पष्टव्याकरणोक्तिवृत्तिमलिखन्मुग्धप्रबोधप्रदाम् । पूर्वनिर्मितदीपिकादिक महाग्रंथानुसारी स्वकप्रज्ञावेदनथ [नतो ह्य]सौ वसुगुरुप्रौढप्रसत्तेः पुनः ।। ३ ॥