________________
PURCHASED FOR GOVERNMENT.
साहित्यागमतर्कलक्षणमहाविद्यापगासागरः श्रीचंद्रप्रभसूरिरद्भुतमहावादीभसिंहोऽभवत् ।। १॥ तत्पट्टलक्ष्मीश्रवणावतंसाः श्रीधर्मघोषप्रभवो बभूवुः । यत्पादपद्मे कलहंसलीलां दधौ नृपः श्रीजयसिंहदेवः ॥ २ ॥ तत्पट्टोदयशैलशृंगमभजत्तेजस्विचूडामणिः श्रीचक्रेश्वरसूरिरित्यभिधया कोऽप्यत्र भानुर्नवः । संप्राप्ताभ्युदयः सदैव तमसा नो जातु विच्छायितो नैवोच्चंडरुचिः कदाचिदपि न प्राप्तोपरागस्ततः ॥ ३ ॥ विललास स्वैरं तत्पप्रासादचंद्रशालायाम् । श्रीमान् शिवप्रभुगुरुः संयमकमलाकृतासक्तिः।। ४ ॥ श्रीशिवप्रभसूरीणां तेषां शिष्योस्मि मंदधीः । नाम्ना श्रीतिलकाचार्यः श्रुताराधनगृद्धिभाक् ।। ५ ॥ एतां वृत्तिं लघुमविषमां सोहमावश्यकीयां तत्पादाब्जस्मरणमहसा मुग्धधीरप्यकार्षम् । तद्यत्किंचिद्रभसवशतो दृब्धमस्यामशुद्धं तत्संशोध्यं मयि कृतकृपैः सूरिभिस्तत्त्वविद्भिः ।। ६ ॥ वृत्ति रचयता चैतां सुकृत यन्मयार्जितम् । भवे भवेहं तेन स्यां श्रुताराधनतत्परः ॥ ७॥ शतद्वादशके ऽब्दानां गते विक्रमभूभुजः । संवत्सरे षण्णवतौ वृत्तिरेषा विनिर्ममे ।। ८ ॥ शिष्या नः शस्यचारित्राः सर्वशास्त्राब्धिपारगाः । अस्यां सहायकं चक्रुः श्रीपद्मप्रभसूरयः ॥ ९ ॥ शिष्योस्माकमिमां वृत्तिमखिन्नः शास्त्रतत्त्ववित् । भलिखत्मथमादर्श यशस्तिलकपंडितः ॥ १० ॥