________________
66
EXTRACTS FROM MSS.
फुलंति वारिजगणा विहरंति कोकाः कामं चरति विहगाः सकलासु दिक्षु । शिष्याः पटंति च भवंति शुभानि लोके यस्योदये तमहमाशु रविं नमामि ॥ ६ ॥ यः पंगुसारथिरथो रथमेकचक्रमारुह्य तत्र विनियोज्य च सप्त सप्तीन् । लोकत्रयेप्यटति चित्रचरित्रकारी भानुः स भानुभिरहो मम पातु देहम् ॥ ७ ॥ यो योगिनामपि मनश्चपलीचकार पुष्पेषुभिर्व्यथयति स्म यवीयसो यः । तं मंक्षु नेत्रशिखिना शमयांचकार मारं हरं तमहमाशु नमामि भत्त्या ॥ ८ ॥ चलचरणताडितक्षितितलं सुपर्वापगीच्छल जलभृतांतरं भ्रमितभीमनेत्रत्रयम् । जटापटलभेदितोपरिचरांबुदं धूर्जटेस्तनोतु पटुतांडवं मम नवं नवं मंगलम् ।। ९ ।। आसीदागमशास्त्रकीरवसतेः सत्पंजरः सज्जनव्यूहानंदकरः कलानिधिकलाभालप्रियाकिंकरः । नानाशास्त्रविचारचारुकवितासंदोहविज्ञाखिलप्राज्ञस्तोमपरिष्टुतो बुधवरःश्रीश्रीनिवासः कृती ॥ १० ॥
आसीदशेषनरपालविशालभालजालप्रमार्जितमनोरमसत्पयोजः । सर्वागमांबुनिधिमंथनमंदराद्रिः श्रीश्रीनिवासतनयस्तु जगनिवासः ॥ ११॥