________________
PURCHASED FOR GOVERNMENT.
65
No. 1120.
गौतमीयतन्नम्। आ°-सिद्धाश्रमे वसन्धीमान्कदाचिद्गौतमो मुनिः ।
तपःस्वाध्यायनिरतो भक्तिमान्पुरुषोत्तमे ॥ १॥ च:-अस्यालोकनतश्चित्ते कृष्णात्मा संप्रसीदति ॥ १११ ॥ इति गौतमीयतंत्रे सर्वतन्त्रोत्तमे द्वात्रिंशत्तमोऽध्यायः ।।३२।।
No. 1137.
मन्त्रचन्द्रिका-जनार्दनः । आ -आरक्ताभं त्रिनेत्रं पृथुतरजठरं वेदहस्तान्दधानं
विभ्राणं मौलिदेशे हिमकरशकलं दानधाराप्तकुंभम् । ब्रह्मेद्राद्यैः समस्तैरमरपरिवृद्वैः सेवितं शुभ्रदंतं भोगींद्राढयं प्रसन्नं सकलशुभकरं तं भजेऽहं गजास्यम्।।१।। उदितदिवाकरदेहां पुरहरवामांगकृतगेहाम् । परिपूरितभक्तेहां सस्नेहां शैलजां वंदे ।। २॥ पीयूषांशुकलां मनोज्ञ मुकुटां शैवालतुल्यालकां भालश्रीविजिताष्टमीशशधरां नीलारविंदेक्षणाम् । चापं बाणगुणांकुशान्मृदुतरैः संबिभ्रती बाहुभिः प्रत्यंग सुमनोरमामरुणभां वंदे गिरींद्रात्मजाम् ।। ३ ॥ कलिंदीकलकूल केलिकलनानंदाकुलैः संततं । संवीतं शिशुवृंदकैर्मुनिवरैर्गीतं गुणैकालयम् । लीला(नाशित)विश्वविश्वभयदाशेषास्रपानीककं संसारकमहाद्रुमस्य रुचिरं कंदं मुकुंदं भजे ॥ ४ ॥ मुरलीरवरंजितविश्वजनस्तनुभाविजितोत्तमनव्यवनः । चलदृक् चपलानिचयेन वृतस्तनुतां मम शर्म मुकुंदहितः ।। ५ ।।