SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 58 EXTRACTS FROM MSS. आसीत्समस्तनपमालिकिरीटकोटिरत्नप्रभानिकररंजितपादपद्मः । प्रत्यर्थिभूपतरुणीकरुणापयोधिवृद्धयै हिमांशुरिह सिंहणदेवभूपः ॥ ४ ॥ तस्य सूनुरभूद्वीरो हम्मीरः सद्गुणाकरः । प्रतीपभूपमत्तेभकुंभदारणकेसरी ॥ ५ ॥ जयत्युदारक्षितिपावतंसस्तनंदनश्रीमदनक्षितीशः । वर्णाश्रमस्याचरणैकहेतुः प्रतीपभूपालकुलैककेतुः ॥ ६ ॥ तेनासकृत्कनकरलदुकूल वाजिग्रामातपत्ररुचिराभरणैरनेकैः । संमानितः स्वरविदुन्मदराजदुर्गकेतुः क्षितो विजयते रणहस्तिनामा |॥ ७ ॥ ब्रह्मे शविष्णुरचितामलयामलेभ्यः सारं विचिंत्य गिरिजादिमतानुसारम् । आरच्यते स्वरविदामखिलार्थसिद्धयै तेनेह राजविजयो रणहस्तिसंज्ञः ॥ ८ ॥ रक्षा सतां नृपधनाहरणेन चेष्टो धर्मस्त्वयत्न इति दिग्विजयोद्यतस्य । भूवल्लभस्य दुरितं द्विषतो निहंतु न स्यान्मखेष्विव पशून्विधिनोदितेन ॥ ९ ॥ उत्साहप्रभुमंत्रशक्तिसहितः श्रीमान् विनीतेंद्रियो नित्यायव्ययविक्षमी त्वनलसः प्राज्ञः प्रभारंजकः। धीरः सच्चरितः स्वरैरनुदिनं विज्ञातलोकस्थितिनित्योद्योगपरः क्षितीशतिलकः स्यात्संपदामास्पदम् ॥ १०॥ अपूर्णः ।
SR No.007581
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 4
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1894
Total Pages416
LanguageEnglish
ClassificationBook_English & Catalogue
File Size102 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy