________________
PURCHASED FOR GOVERNMENT.
57
57
सावित्री शिशुनैव यच्चिरमभूद्धचाता मया भक्तितः काश्यां स्पर्शमदाच कश्चन सुरो यच्छ्रीभवान्याः पुरः। शैवाजोपि च पर्यचाययदलं यहीक्षया श्रीगुरुस्तत्तद्वैभवतो ममामलमतौ श्रीभारती भासते ।। ७४ ।। मीमांसाइयमूलया फणिपतिप्रोद्गीतभाष्यामृतासाराभ्युक्षितपाणिनीयधरणौ साहित्यबीजोत्थया । सांख्यन्यायपुराणपल्लवितया श्रीरामधीवीवुधा [धीविद्यया] वेदांगादिफलैः सदुक्तिकुसुमैः को वा न संतोप्यते ॥ ७ ॥ इति श्रीमहेश्वराचार्यश्रीरामचंद्रविरचितायां स्वविरचितयंत्रप्रकाशटीकायां कुतूहलयंत्रप्रकाशनो नाम पठोऽध्यायः समाप्तः ।।
No. 984. राजविजयः-रणहस्ती । आ --वरदपाशरदांकुशविस्फु
करनतास्यसरोरुहभास्करः । दिशतु नः श्रियमंबुरुहासनः शशिकलांकि तमौलिरिभाननः ॥ १ ॥ यत्पादपंकजयुगप्रणतिप्रसादासद्यस्तिरस्कृतबृहस्पतिवाग्विलासः । मूकाननेऽपि चतुरा विकसंति वाचो वंदे गिरीशदयितां जगदंबिकां ताम् ॥ २॥ वालं कुमारं परिहत्य येन भानुं युवानं च विलोक्य सद्यः । त्रयी पुरामेकशरेण भिन्ना वंदे गुरुं सस्वरमीश्वरं तम् ॥ ३ ॥