________________
PURCHASED FOR GOVERNMENT.
साहित्यपीयूषसुपोषितांगश्रितप्रकाशो जगति प्रसिद्धः ।। १६ ॥ इह यादवभट्टजातजन्मा कृतजंबूसर आलयस्ततान । स हि ताजिककौस्तुभाभिधानं
कमनीयं भुवि बालकृष्णभट्टः ॥ १७॥ श्रीनारायणशंकरस्तवनके स्तोत्रं शिवायास्ततो यंत्रोद्धारयुतं महागणपतेः स्तोत्रं त्रिवेण्यास्ततः । योगिन्यष्टदशाक्रमच तरणेः संक्रांतिजो निर्णयः पया यस्य विराजते कृतिरियं पांडित्यचिंतामणिः ।। १८ ।।
एनं नरस्ताजिककौस्तुभं यः कंठे विदध्यात्स मनीषिमान्यः । सर्वसहामंडलमंडनाय भवेन्नरेशाप्तगजाश्ववित्तः ॥ १९ ॥ नात्यर्थ्यते चंद्रिकायां चकोराथंद्रेणाथो कल्पपुष्पैर्न भृगाः । तद्वत्स्यादस्मिन्गुणोत्कर्षलेशः कश्चिन्नूनं पंडिताः संतु सक्ताः ॥ २० ॥ यादृशो मम मतेः परिपाकस्तन्निदानवशतोऽयमकारि । शोधनं विह बुधा यदशुद्धं
प्रार्थनां सफलयंतु ममैनाम् ।। २१ ॥ इति श्रीमद्भयादवात्मजबालकृष्णभट्टविरचितस्ताजिककौस्तुभः समाप्तिमगमत् ॥