________________
50
EXTRACTS FROM MSS.
यं दिल्लीनायकोऽयं व्यरचत विबुधोद्दामवेदांगरायं सोयं गौडेंद्रभूपप्रवरगिरिधरस्याज्ञयामुं चकार ॥ ७४ ॥ वृद्धा ये लघवो हि यत्र निपुणास्तान्वच्मि नत्त्रादरात् क्षंतत्र्यं मम तैर्मया यदधुना न्यूनाधिकं कीर्त्तितम् | नानानंदभरैः सुकाव्यकुशलैः सुज्ञैर्गुणज्ञैर्विया यत्किंचिद्भमतस्तथात्र पतितं शोध्यं महद्भिस्तु तत् ॥ ७५ ॥ इति श्रीमगिरिधरानंदे नाना सुनिमित्तान्विते । जातकाद्योयमध्यायो ग्रंथोऽपि पूर्णतां गतः || No. 917.
ताजिक कौस्तुभः - बालकृष्णः ।
आ० - ध्यात्वा तत्सपयः पयः प्रदनिभं विंध्याद्रिसंस्थं महो यश्चासीत्सकलागमार्थकलनः श्रीरामजित्पंडितः | तद्वंशोद्भव भट्टयादवसुतः श्रीबालकृष्णाभिधः
कुर्वे ताजिक कौस्तुभं सुललितं विद्धृदाभूषणम् ॥ १ ॥ सत्ये विधिः शास्त्रमधान्न (वै) मुधा त्रेतायुगे यन्मुनिवादरायणः ।
यद्वापरे गर्गकृतं यथाऽभव
तिष्ये तथा ताजिकशास्त्रजं फलम् ॥ २॥ च - या ताप्युत्तरतीरसंश्रयवती ख्याता प्रकाशा पुरी यश्चासीदिह याज्ञवल्क्यतिलकः श्रीरामजित्पंडितः । षट्शास्त्राध्ययनाधिराट् समभवन्नारायणस्तत्सुतस्तनुर्न यवेदवित्समभवद्येो रामकृष्णाभिधः || १५॥ तदंगजो यादवभट्टनामा नानागमार्थकलितो बभूव ।