SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ PURCHASED FOR GOVERNMENT. सा पट्टराज्ञी खलु षट् तनूजान् सौभाग्यसिंधून् सुषुवे च तस्मात् | स्वशक्तिसंपन्नमहाप्रभावान् प्रायः पुमर्थानिव मूर्त्तिमानः ॥ १० ॥ तत्रात्मजो ज्येष्ठतमोऽतिभूरो दाक्षिण्यसिंधुर्गुरुदेवभक्तः | अखर्वगर्वः परगर्वहंता विष्णुप्रियोऽभूद्वलिरामनामा ॥ ११ ॥ तस्माल्लघुः सत्यपरः सहिष्णुः पदाभिषिक्तो नृपतिर्वदान्यः | राजात्मजश्रीरमणी सुखाद्यः स्याद्राजते विठ्ठलदासभूपः ।। १२ ।। द्विजहरिहरभक्तो युद्धकार्येतिशक्तो धनगजह ययुक्तो विवलेशाल्लघुर्यः । ननु गिरिधरदासो भूमिपः सत्यवक्ता परिजनसुखतुष्टः शोभते चातिदृष्टः || १३ || वैरिवर्गविजयस्ततो लघुः ख्यातिमान् विजयरामसंज्ञिकः । बंदिवृंदधनदो विराजते संकटेपि न च खेदमेव्यसौ ॥ १४ ॥ सत्कर्मधर्मनिरतोऽतितरां प्रवीणस्तस्माल्लघुः सकलसौख्ययुतो वदान्यः । सत्यप्रियः स च मनोहरदासभूपः संशोभते सकलवित्खलु धर्मरूपः ॥ १५ ॥ 47
SR No.007581
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 4
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1894
Total Pages416
LanguageEnglish
ClassificationBook_English & Catalogue
File Size102 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy