________________
46
EXTRACTS FROM M8S.
तेषां ये गौडदेशीया राजपुत्रा यशस्विनः | अजमेरपदं तैस्तु गृहीतं पुण्यभूमिजम् || ३ || गौडा नृपेंद्रा द्विजदेवभक्ता अरातिचक्राक्रमणेऽतिदक्षाः | लोकानुरूपाः सुतरां सुरूपास्तुरंग हेमांवर कुंजराद्याः || ४ || तत्रासीच्छु निशा ख मार्गनिपुणो धोरोतिभूरायणीशोजित्ति नृपोत्तमः सकलजिद्दीर्येण भूभृत्पतिः । गांभीर्येण सरित्पतिर्धनपतिर्लक्ष्म्या गुणैः स्वर्पतिः कांव्या रात्रिपतिर्धिया दृढगतिः सद्विद्यया वाक्पतिः ||५|| तत्सूनुर्द्विजदेवभक्तनिरतो भूपानुकंपान्वितो
योगाजीति नृपो ह्यभूत्सुमतिमान् योगींद्र सेवापरः । भूर: साहसिको रणांगणरतो दानेतिदक्षः सदा नूनं सर्वजनप्रियोऽतिचतुरः सौजन्यरत्नाकरः || ६ ।।
तस्यात्मजो धर्मरतोतिवीरो
गोपालदासो नृपतेर्बभूव |
दल्लीश्वराद्येन च नामधेयं
मांधातृराजेंद्र इति प्रलब्धम् ॥ ७ ॥ सोयं पंडितमंडितोतिनिपुणो देवद्विजाचरितः स्वाचारेण मुनीश्वरो गुणनिधिः कारुण्यधाराधरः | वेदाज्ञापरिपालको दृढमतिमधातृनामा नृपो येनेदं प्रकटीकृतं हरिपदं श्रीकीर्तिवल्याः फलम् ॥ ८ ॥ शिवेन सार्धं हि सदा यथेश्वरी
शुभावहा सिंधुसुता च विष्णुना |
तथैव मांधातृनृपेण सत्कुला सदा कुमारीत्यभिधा पतिव्रता ॥ ९ ॥