________________
EXTRACTS FROM Ms.
आर्योपेतमुपस्थिताखिलगणस्रक्पूजितं सर्वदा छंदःशास्त्रमिवेश्वरस्य जयति त्रैलोक्यवंद्यं वपुः ।। १ ॥ कृष्णात्रेयस्य गोत्रे समजनि पुरा दाक्षिणात्याग्रणीयो वेलादित्याभिधानः सुकविरभवद्भास्करस्तस्य सूनुः । तत्पुत्रः सुल्हणाख्यः सुललितपदां वृत्तरत्नाकराख्य.
छंदोवृत्तिं स चक्रे सुकविहदयानंदिनीनामधेयाम् ।। २॥ च-सद्वृत्तरत्नाकरनामधेयशास्त्रस्य वृत्तावधिकार एषः।
प्रस्तारमुख्योत्र तु सुल्हणाख्यविनिर्मितायामजनिष्ट षष्ठः||१ प्रमादादौत्सुक्यात्क्वचिदनवबोधेन यदि वा ममास्यां वृत्तौ ( यत् ) सहृदयजनाः कोमलमतेः । अवधं चेकिंचिद्भवति भवतामंजलिरयं प्रसादं कृत्वा तत्प्रगुणमतिभिः शोध्यमखिलम्. ॥ २ ॥ यावच्चंद्रमसछलेन विलसहीपप्रदीपांचिते रम्येऽनुक्षपमंतरिक्षफलके बद्धोत्सवं खेलति । तारासारदुरोदरेण निखिलं दिक्कामि(नीमंडलं)
जीयात्तावदियं मनोहरपदा वृत्तिः प्रसादात्सताम् ।। ३ ॥ इति श्री
___No. 887.
गणकमण्डनम्-नन्दिकेश्वरः । आ०-नत्वा दुर्गा गणेशं च श्रीमद्वेदांगरायजः |
नंदिकेश्वरसंज्ञाहं वक्ष्ये गणकमंडनम् ॥ २ ॥ च-श्रीमद्भूर्जरदेशेऽस्ति विप्रवृंदविभूषितम् ।
श्रीस्थलाख्यं पुरं रम्यं पुरुहूतपुरोपमम् ।। १२ ।