________________
PURCHASED FOR GOVERNMENT.
आसीदुद्यदुदारधीरचरितः श्रीमान्कपोलान्वये साधु(:) सज्जनसंज्ञकः कृतिजनप्रोद्रीयमानोदयः । उद्भूता विविधप्रदानजलधेरापूर्य भूमंडलं प्राप्ता विष्णुपदं विभाति भुवने यत्कीतिभागीरथी ।। २ ॥ तदात्मजनिरंजसा विबुधगीतकीत्तिः सदा । क्षितीश्वरगणार्चितो जगति कीकराजः कृती । परस्परजिगीषया वसति यत्र विद्याचयश्चतुर्भुजपरायणो जयति शारदानंदनः ।। ३ ।। यशोदयांकिततनुः सत्यासक्त मनाः सदा । सुदर्शनप्रियः कीकराजः कृष्णांशसंभवः ।। ४ ।।
भरतकश्यपदत्तिलयाष्टिकार्जुनसमीरणतुंबुरुनारदाः ।। मुनिमतंगविशाखिलकंबला
श्वरतप[कंबलाच्यवन]कोहलराहलरावणाः ॥ ५॥ व्याख्यातारो भारतीये ये चान्ये लोल्लटादयः । अगाधबोधमथेन तेषां मतपयोनिधिम् ॥ ६ ॥ सम्यगालोद्य कृतिना सज्जनानन्ददायिनी ।
कीकराजेन संगीतसारोद्धारो विधीयते ॥ ७ ॥ च०-१७० इति श्रीश्रीमत्कपोलवंशावतंसमधुश्रीसज्जनात्मजसकलविद्याविशारदमहनीयचरितमहायशश्शारदानंदकीकराजविरचिते संगीतसारोद्धारे नृत्यप्रकरणं सप्तमं समाप्तम् ।।
No. 869. वृत्तरत्नाकरः सटीकः-मू केदारभट्टः टीसुल्हणः । टी०आ०-श्रीकंठप्रभया युतं रुचिरया प्रोद्भासितं गंगया
नानावक्त्रविराजितं शशिकलापीडोच्छ्यालंकृतम् ।