________________
EXTRACTS FROM MSS.
No. 386.
भागवतामृतम्। आ° श्रीगोपकुमार उवाच ।।
ब्रह्मलोकादिमां पृथ्वीमागच्छन् दृष्टवानहम् ।
पूर्व यत्र यदासीत्तद्धोऽप्यस्ति न कुत्रचित् ।। च°-अथ श्रीरामेण प्रवरकरुणाकोमलहदा
जगचित्तज्ञेन प्रणयमृदुनाश्वास्य वचसा । व्रज द्वारावत्यां सुखमिति समादिश्य गमितः
समं तां भल्लूकावलिपरिवृढेनाहमचिरात् ।। इति श्रीभागवतामृतनामीतिहासे गोलोकमाहात्म्यखंडे वैकुंठनामा चतुर्थो ऽध्यायः ॥
___No. 402.
हरिलीला-बोपदेवः । आ०-नमः कृष्णाय नित्यै कसच्चिदानंदमूर्तये ।
जगत्सर्गविसर्गादिसाक्षिणेऽचिंत्यशक्तये ॥ १॥ श्रीमद्भागवतः स्कंधाध्यायार्थादि निरूप्यते । विदुषा बोपदेवेन मंत्रिहेमाद्रितुष्टये ।। २ ॥ आनंदस्य हरेर्लीलां वक्ता भागवतागमः । स्कंधैदशभिः शाखाः प्रतन्वन् द्विजसेवितः।। ३ ।। सा च द्वितीये दशमे दशधाऽदर्शि तद्यथा । अत्र सर्गो विसर्गच स्थानं पोषणमूतयः ॥ ४ ॥ मन्वंतरेशानुकथा निरोधो मुक्तिराश्रयः । सर्गादयस्तृतीयादिस्कंधेषक्ता दश क्रमात् ॥ ५ ॥ श्रोतुर्वक्तुच लक्ष्माये द्वितीये श्रवणे विधिः । इतीदं द्वादशस्कंधं पुराणं दशलक्षणम् ।। ६ ॥