________________
EXTRACTS FROM MBB.
No. 281. रुद्रकल्पदुमः-अनन्तदेवः । आ०-सिद्धिबुद्धिप्रदातारं विनव्यूहविदारणम् ।
महागणपतिं वंदे लक्ष्मीविष्ण्वादिभिर्वृतम् ॥ १॥ सचिदानंदरूपाय शिवादेहार्धधारिणे । नम कारवाच्याय शिवायाभीष्टदायिने ॥ २॥ श्रीनृसिंह रमानाथं सच्चिदानंदविग्रहम् । विधीन्द्रोपासितं वंदे भक्तकल्पमहीरुहम् ।। ३ ॥ कात्यायनान्गुरूनत्वा श्रीमदुद्धवसूनुना । तन्यतेऽनंतदेवेन रुद्रार्चापद्धतिर्मया ॥ ४ ॥ पद्धत्यो विविधा अन्या स्फुटाः संतीह यद्यपि ।
ताभ्यस्तस्या विशेषो यः पंडितैः सोऽवधार्यताम् ॥५॥ अथ काण्वमाध्यंदिन्यादिवाजसनेयीशाखानुसारेण रुद्राभिषेकप्रयोग उच्यते ।।......
पत्रे ४६ इति श्रीमद्विवेदी उद्धवसूनुना द्विवेदीदेवानुजेन द्विवेदी श्रीमदनंतदेवेन विरचिते श्रीरुद्रकल्पद्रुमे रूपकाख्याद्यरुद्राभिषेकपद्धतिः समाप्तिमगमत् ॥ अथ द्वितीयो रुद्र उच्यते । च°-धीमतानंतदेवेन श्रीमदुद्धवसूनुना ।
त्रैवेद्यमोढसंज्ञेन काशीपुरनिवासिना ॥ १ ॥ श्रुतिस्मृतिभ्य उद्धृत्य रुद्रकल्पद्रुमोर्पितः । मदीयनाथयोर्विष्णुवंद्ययोः शिवपादयोः ॥ २॥ मुहुर्मुहुः प्रार्थयेहं सज्जनान् शुद्धमानसान् । मयोक्तमिह संशोध्यं विचार्य सदसच यत् ।। ३॥