________________
PURCHASED FOR GOVERNMENT.
मान्यान्प्रणम्य विहितोंजलिरेष भूयो भूयो विधाय विनयं विनिवेदयामि । दृष्यं वचो मम परं निपुणं विभाव्य
भावावबोधविहितो न दुनोति दोषः ।। २ ॥ घ.-इति शौनकरीत्या पुत्रप्रतिग्रहविधिः ॥
सतां संतोषसिद्धयर्थ दत्तसिद्धांतमंजरी ॥
अकारि बालकृष्णेन तेन तेषां मुदेऽस्तु सा ॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यसर्वतंत्रस्वतंत्रश्रीमददैतानंदभगवत्पादारविंद गायमानांतःकरणेन श्रीमत्पल्हनीटकरकुलोत्तंसश्रीमहेवभट्टदीक्षितपंडितात्मजेन बालकृष्णशर्मणा विरचिता दत्तसिद्धांतमंजरी समाप्ता ।
No. 246. (प्रवरमञ्जरीसारोद्धारः-शंकरदैवज्ञः । भा-विघ्नौषध्वांतविध्वंसमार्तडं सिंदुराननम् |
ब्रह्मादिविबुधैः सेव्यपादपद्म भजाम्यहम् ॥ १॥ रणत्र[नू ]पुरसंस्कारैः क्वणवीणादिवादनैः । जातहर्षा प्रफुल्लास्यां भारती भावयाम्यहम् ।। २ ।। बौधायनादिसूत्राणां व्याख्याकृद्भिः पुरातनैः । प्रपंचितं विस्तरेण तत्संक्षिप्य मयोच्यते ॥ ३ ॥ विवाहसिद्धये किल वैदिकानामुर्वीसुतानामबहुश्रुतानाम् ।
संदोहगोत्रप्रवरानुषा विरच्यते शंकरतांत्रिकेण ॥ ४ ॥ घ-इत्थं सगोत्रप्रवरः संदोहः परिगुंफितः ।
आदरेण बधैर्भाव्यः क्षम्यतां मम साहसम् ।। इति श्रीमच्छि वात्मजशंकरदैवज्ञविरचिते प्रवरमंजरीसारोद्धारे गोत्रप्रवरनिर्णयः समाप्तः ॥ ॥