________________
18
OPERATIONS IN SEARCH OF SANSKRIT MSS.
first adhyâya of the text, which is devoted to a consideration of the uses of the science and practise of poetry, is given here as a sample of the work : and I will add a few notes with regard to the contents of the other adhyayas :
अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः ॥ उद्भिननवश्मश्रुश्रेणिरिव गणाधिपो जयति ॥१॥ सकलजगदेकशरणं प्रणम्य चरणांबुजद्वयं गौर्याः॥ काव्यालंकारोयं ग्रंथः क्रियते यथायुक्ति ॥१॥ अस्य हि पौर्वापय पर्यालोच्याचिरेण निपणस्य ।। काव्यमलंकर्तुमलंकर्तुरुदारा मतिर्भवति ॥ ३॥ ज्वलज्ज्वलवासरः सरसं कुर्वन्महाकविःकाव्यं ।। स्फुटमाकल्पमनल्पं प्रतनोति यशः परस्यापि ॥४॥ तत्कारितसुरसदनप्रभृतिनि नष्टे तथाहि कालेन ॥ न भवेन्नामापि ततो यदि न स्युः सुकवयो राज्ञां ॥५॥ इत्थं स्थास्नु गरीयोविमलमलं सकललोककमनीयं ।। यो यस्य यशस्तनुते तेन कथं तस्य नोपकृतं ।। ६ ।। अन्योपकारकरणं धर्माय महोयसे च भवतीति ।। अधिगतपरमार्थानामविवादो वादिनामत्र ।। ७॥ अर्थमनर्थोपशमं शमसममथवा मतं यदेवास्य । विरचितरुचिरसुरस्तुतिरखिलं लभते तदेव कविः॥ ८॥ नुत्वा तथाहि दुर्गा केचित्तीर्णा दुरुत्तरां विपद। अपरे रोगविमुक्तिं वरमन्ये लेभिरेभिमतं ॥९॥ आसाद्यतेस्म सद्यः स्ततिभिर्येभ्योभिवांछितं कविभिः। अद्यापि त एव सुरा यदि नाम नराधिपा अन्ये ॥१०॥ कियदथवा वच्मि यतो गुरुगुणमाणसागरस्य काव्यस्य । कःखल निखिलं कलयत्यलमलघुयशोनिदानस्य ॥ ११॥ तदिति पुरुषार्थसिद्धिं साधुविधास्यद्भिरविकलां कुशलैः ।। अधिगतसकलज्ञेयः कर्तव्यं काव्यममलमलं ।। १२ ।। फलमिदमेव हि विदषां शुचिपदवाक्यप्रमाणशास्त्रेभ्यः। यसंस्कारो वाचां वाचश्च सुचारुकाव्यफलाः॥ १३ ॥ तस्यासारनिरासात्सारग्रहणाच्च चारुणः करणे । त्रितयमिदं व्याप्रियते शक्तिर्युत्पत्तिरभ्यासः॥१४॥ मनसि सदा सुसमाधिनिविस्फरणमनेकधाभिधेयस्य। अक्लिष्टानि पदानि च विभांति यस्यामसौ शक्तिः॥ १५॥ प्रतिभेत्यपरैरुदिता सहजोत्पाद्याच सा द्विधा भवति । पुंसा सहजातत्वाइनयोस्तु ज्यायसी सहजा ॥ १६ ॥ स्वस्यासी संस्कारे परमपरं मृगयते यतो हेतुं ।। उत्पाद्या तु कथंचियुत्पत्त्या जन्यते परया ॥ १७॥