________________
नित्यं यत्प्रणिपातसंभ्रमभृतां पादाब्जपीठस्थलन्यासोला सिकिणावलिव्यतिकराद्भालेषु भव्यात्मनाम् ॥ एतेनंतमहोमहोदयपदे योग्या इति प्रीतितः
पुण्यद्धर्या किल वर्द्धितानि तिलकान्यव्याज्जिनौघः स वः ॥ ३ ॥ यत्कांतिप्रसरेण विश्वधवलीकारश्रिया सर्वतः सद्ध्घानं परिपच्यतेधिमनसं शुक्तं तदक्लेशतः ॥ येनोत्सर्पति सर्ववाङ्मयगतं ज्ञानं परं तत्क्षणात् सास्माकं श्रुतदेवता रचयताद्विघ्नोपशांतिक्रियाम् || ४ || आस्तेनन्यजनामनस्यनुकलं स्वस्वामिभक्तिस्ततो वासं यस्य चकार पाणिकमले सा केवलश्री ध्रुवम् ॥ नैवं चेद्विललास तत्कथमियं सर्वत्र तत्र क्षणात् न्यस्तो यत्र भवेदयं स भगवान् श्रीगौतमो नंदतात् ॥५॥ गवामीशे यत्र प्रवचनधुरं धर्मधवले स्फुरद्वयाख्यानादप्रतिहृतसमस्तेतरवृषे ॥ समारोप्यात्मीयां त्रिभुवनपतिर्निर्वृतिमगाद्भवारण्यान्निस्तारयतु स सुधर्माभिधगुरुः || ६ |
तत्त्वार्थरलौघविलोकनार्थे सिद्धांत सौधांतरहस्तदीपाः ॥ निर्युक्तयो येन कृताः कृतार्थस्तनोतु भद्राणि स भद्रबाहुः ॥ ७ ॥ तस्यावश्यक नियुक्तिगवीं दुहन् वृत्तिभाजनेर्थपयः ॥ प्रगुणीकरोमि सरसं रसलोलुपलो कतुष्टिकृते ॥ ८ ॥ पर क्व द्वादशांगीभृद्भद्रबाहुगुरोर्गिरः ॥ मुग्धधीर्बालिशः क्वाहं पदमात्रेप्यशक्तिमान् ॥ ९॥ तद्यदावश्यक महं विवरीतुं मर्तेि व्यधाम् || गंगां तरीतुमारब्धस्तदोष्णैकेन कृष्णवत् || १० ||
(7)