________________
श्रीमुधर्मा सुधर्मश्रीवीरवंशसमुद्भवः॥ तरो महांतरारातिपातने तनुतां मम ॥९॥ चतुर्दशमितापूर्वपूर्वरत्नकुलाश्रयः॥ विश्वरूपं दधन्मध्ये श्रुतवाद्धिः प्रवर्द्धताम् ॥ १०॥ चतुर्दशशतग्रंथग्रंथनायासलालसम् ।। हारिभद्रं वचो हारि भद्रं भद्रं करोतु नः ॥ ११॥ वादविद्यावतोद्यापि लेखशालामनुज्झता ।। देवसूरिप्रभोः साम्यं कथं स्यादेवसूरिणा |॥ १२॥ वंदे श्रीदेवचंद्रं तं यत्कृतं प्राकृत बृहत् ।। श्रीशांतिवृत्तं संक्षिप्य संस्कृतं क्रियते मया || १३ ॥ अमानं महिमानं कस्तस्य स्तौतु गणेशितुः॥ शिष्यो यस्योदितो हेमचंद्रसूरिर्जगद्गुरुः ।। १४ ॥ नृपतिप्रतिबोधिन्या यन्दिरा सुधयामराः ॥ जज्ञिरे पशवोपि श्रीहेमसरि महेम तं ॥ १५ ॥ श्रीदेवानंदसूरिभ्यो नमस्तेभ्यः प्रकाशितम् ।। सिद्धसारस्वताख्यं यौनिजं शब्दानुशासनम् ।। १६ ॥ श्रीदेवानंदाशष्यश्रीकनकप्रभाशिष्यरात् ॥
श्रीप्रद्युम्नश्चिरं नंद्यात् ग्रंथस्यास्यापि शुद्धिकृत् ।। १७॥ Endsसच्यासपूर्वमथ कोटिशिलाख्यतार्थे प्राज्यैः समं मुनिवरैः शिवमाससाद || ४००॥ धीरोदात्तचरित्रवानधिगतश्चक्रिश्रियं तत्र यभोगेप्यस्य न संगमंगतिमतिस्तद्वीरशांतो ध्रुवम् ।।
शूरः क्रूरतरश्च मोहनिहतौ धीरोद्धतो नायक : सिद्धौ बद्धरतिभ धीरललितः श्रीशांतः [sic. lege शांतिः] शिवायास्तु