________________
94 EXTRACTS FROM MANUSCRIPTS ACQUIRED FOR GOVERNXENT.
मेधामांद्यात्ममादाच्च यदवद्यमिहाजनि । तत्मसद्य महाविद्या (C) शोधयंतु विशारदाः ॥ १२ ॥ द्वादशात्मैव सद्वारदिशामेव बोधकृत् ।
इयं सम्यक्त्वतत्वानां कौमुदी द्योत्यतां भुवि ॥ १३ ॥ प्रशस्तिश्लोकाः २५ । प्रत्यक्षरं निरूप्यास्याग्रंथमानं विनिश्चितम् । रुद्राद्रिमुनिसंख्याताः श्लोकाः सचतुरक्षराः ॥ १४ ॥ अनेन श्लोकेन सह ग्रंथमानं । ग्रंथाग्रं । ७७११ अक्षर ४ ॥ शुभं भवतु ॥
काव्यप्रकाशस्य टीका-भीमसेनः शब्दब्रह्म सनातनं न विदितं शास्त्रैः क्वचिकेनचित् तद्देवी हि सरस्वती स्वयमभूत् काश्मीरदेशे पुमान् । श्रीमज्जैयटगेहिनीसुजठराज्जन्माप्य युग्मानुजः श्रीमन्मम्मटसंज्ञया श्रिततनुं सारस्वती सूचयन् ।। ४ ।। मर्यादां किल पालयन् शिवपुरी गत्वा प्रपठ्यादराच्छास्त्रं सर्वजनोपकाररसिकः साहित्यसूत्रं व्यधात् । तवृत्तिं च विरच्य गूढमकरोकाव्यप्रकाशं स्फुटं वैदग्ध्यैकनिदानमर्थिषु चतुर्वर्गमदं सेवनात् ॥५॥ कस्तस्य स्तुतिमाचरेत्कविरहो [वरो] को वा गुणान्वेदितुं शक्तः स्यात्किल मम्मटस्य भुवने वाग्देवतारूपिणः। श्रीमान् कैयट औवटो ह्यवरजो य च्छात्रतामागतो भाष्याब्धि निगमं यथाक्रममनुव्याख्याय सिद्धिं गतः ॥ ६॥
संवबहाश्वमुनिभूज्ञाते मासे मधी सुदि ।।
त्रयोदश्यां सोमवारे समामोयं सुखोदधिः ।। इति श्रीमत्पदवाक्यप्रमाणपारावारीणदीक्षितभीमसेनकृते काव्यप्रकाशविवरणे सुधासागरेर्थालंकारनिर्णयो नाम दशम उल्लासः॥