SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ACQUIRED FOR GOVERNMENT. तच्छिष्योभयदेवसूरिरभवदंगनवांगीमहा वृत्तिस्तंभनपश्वनाथजिनराट्मूर्त्तिप्रकाशैककृत् ।। २ ।। तत्पट्टपूर्वाचलचूलिकायां भास्वानिव श्रीजिनवल्लभाख्यः । सच्चक्रसंबोधनसावधनबुद्धिः प्रसिद्धो गुरुमुख्य आसीत् ॥ ३ ॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेतिविज्ञोग्रणीस्तत्पादांबुजराजहंससदृशः श्रीपद्मचंद्रः प्रभुः । तत्पट्टांबुधिवर्द्धनः कुवलयप्रोद्यत्मबोधैकधीः श्रीमान् श्रीविजयेंदुरिंदुवदभूच्छश्वत्कलालंकृतः ।। ४ । पट्टे तदीयेभयदेवसूरिरासीद्दितीयोहिगुणाद्वितीयः । जातो यतोयं जयतीह रुद्रपल्लीयगच्छः सुतरामतुच्छः ।। ५ ।। तत्यादांभोजभृंगोजनि जिनसमयांभोधिपाथोधिजन्मा सूरींद्रो देवभद्रोनुपशमरमाराममेघोपमानः । तस्यांतेवासिमुख्यः कुमतमतितमश्चंद्रमार्त्तडकल्पः कल्पद्रुः कल्पितार्थमवितरणविधौ श्रीप्रभानंदसूरिः ।। ६ ।। ज्योतिस्तोमैरमानैः प्रतिहतजगतीवर्तितेजस्वितेज:स्फूर्ती तत्पट्टपूर्वाचलविमललसन्मौलिमौलीयमानौ । श्रीमान् श्रीचंद्रसूरिर्विमलशशिगुरुश्चाप्रमेयप्रभावी जातौ श्रीराजहंसाविव भविकजनव्यूहबेोधकदक्षौ ॥ ७ ॥ आकस्मीरमरणचारुधिषणान् वादींद्र वृंदारकान् माद्यद्वादविधौ विजित्य जगति प्राप्तप्रतिष्ठोदयः [याः ] | सुरेंद्रा [सूरींद्रा ] गुणशेखराः स्मयहराः शृंगारचंद्रक्षमाधीशाभ्यर्च [] पदांबुजाः समभवंस्तत्पट्टशृंगारिणः ॥ ८ ॥ श्रीसंघतिलकाचार्यास्तत्पदांभोजरेणवः । सम्यक्त्वसप्ततेर्वृत्तिं विदधुस्तत्वकौमुदीम् ॥ ९ ॥ अस्मच्छिष्यवरस्य सोमतिलकाचार्यानुजस्याधुना श्रीदेवेंद्रमुनीश्वरस्य वचसा सम्यक्त्वसत्सप्ततेः । श्रीमद्विक्रमवत्सरे द्विनयनांभोधिक्षपाकृत्प्रमे श्रीसारस्वतपत्तने विरचिता दीपोत्सवे वृत्तिका ॥ १० ॥ सा सोमकलशवाचकवरानुजैरत्र विहितसाहय्यैः । प्रथमादशैं लिखितोपाध्यायैः श्रीयशःकलशैः ॥। ११ ॥ 93
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy