SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ उ.टौका c0 orn कुमारभवन्मातुलपुत्रीपुष्कवतो कन्यका तद्रू पा क्षिप्तचित्तस्तां कृत्वा आगताः परं तत् दृष्टि सोढुमक्षमो विद्यां साधेतु गत: अतःपरं वृत्तान्ती युभाक जानगोचरोऽस्ति तस्मिन् काले भवदन्तिकादागत्य पुष्पवल्या आवयो टबधवृत्तान्तः कथितः ततः शोकभरेण आवां रोदित प्रवृत्ते मधुरवचनैः पुष्पवत्या रक्षिते तदा आवां शङ्करीविद्या एवं वक्त प्रवत्ता असौ भावबधकारी ब्रह्मदत्तचक्रवर्ती भविष्यति युवां मुनिववनं कि न स्मरथ एतहचनमाकर्थ आवाभ्यां जातानुरागाभ्यां मानितं परं पुष्पवत्या वालिकया ने हरससंभान्तया रक्तपताकां विहाय खेतपताका चालिता तद्दर्शनानन्तरं त्वमन्यत्र कत्रापि गतः नानाविधग्रामाकर नगरादिषु भूमन्तीभ्यां आवाभ्यां त्वां न क्वचिदृष्टः ततो विखिन्ने आवां इहागते साम्प्रतमत्रातर्कि तहिरण्यसमं तव दर्शनं जातं तती महाभाग पुष्पवतो व्यतिकरं स्मृत्वा कुरु अस्मत् समौहितं एवं श्रुत्वा कुमारेण सहर्ष मानितं गन्धर्वविवाहेन तयोः पाणिग्रहणं कृतं एक रात्री ताभ्यां समं उषित्वा प्रभात कुमारस्त योरेवमुवाच युवां पुष्षवत्या समं मच्छतं तया समं तावत् स्थातव्य यावन्मम राज्यलाभो भवति एवं श्रुत्वा ते गत तावत् कमारो न तहलग्रहं न तं परिजनं पश्यति चिन्तितवांथ एषा विद्याधरी मायेति चिन्तयन् रत्नवती गवेषणा निमित्त तापसाथमाभिमुख गतः न च तत्र रत्नवतो दृष्टा न चान्यः कोपि पुरुषो दृष्टः ततः क पृच्छामोति विचार्य इतस्ततः पश्यति तावदेको भद्राक्कतिः पुरुषस्त त्रायातः कु मारेण स पृष्टः भो महाभाग एवंविध रूपनेपथ्या एका स्त्री मयात्र मुक्ता कल्ये ऽद्य वा त्वया दृष्टा तेन भणितं पुत्र त्वं कि तस्या रत्नवत्या भर्ती कुमारी भणति एवं तेन भणितं कल्ये सा मया रुदतीं दृष्टा अपराककाले तस्याः समीपे गतः पृष्टा च सा मया पुत्रिका क्कासि त्वं कुतः समागताः किंतेशोककारण कवा त्वया गन्तव्य तया किञ्चित्कथिते सामया प्रत्यभिज्ञाता मम व दौहिती भवसौति उदित्वा मया तस्य लघुपितुः समीपे गत्वा शिष्टा तेनाप्यु पलक्ष्य सा विशेषा दरेण स्वमन्दिर प्रवेशिता सर्वत्र वंगवेषितः परं न क्वचिदृष्टः साम्प्रतं सुन्दरं जातं यत् त्वं लब्धः एवमुक्तानीतः कुमारस्तदग्टहे उपचारः कृतः तत्र महो राय धनपतसिंह बाहादुर का पा०सं०.४१ मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy