SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ उ टौका १८ * ब्रजति सति तेन चौरण तबगरं भृशं मुषितं अन्यदा तत्र नगरे मूलदेवो राजा राज्ये उपविष्टः सकवं राजा तत्र संवृत इति तदाख्यान मुच्यते उज्जयिन्यां नगयीं सर्वगणिका प्रधाना देवदत्ता नामा गणिकास्ति तस्या ग्रहोचलो नामा व्यवहारि पुत्रः परदेशायाती भोगान् भुक्त मार्गितमर्थञ्च ददाति तस्या एव रहे परदेशायाती राजपुत्रो मूलदेवोऽतिरूप सौभाग्य स्तयैवगुणबुद्दयामानितोऽचलः प्रच्छन्नमायाति भोगानपि भुक्त सातु मूलदेवेन एकमेव प्रेमवती बभूव परं अचल स्तत्स्वरूपं न जानाति एकदा देवदत्ता जनन्या उक्त पुत्रि किमेतेन मूलदेवेन नि:स्खेन अचलमेव भज मूलदेवं त्यज देवदत्ता प्राह पयं पण्डितोऽतीव सौन्दर्य्यादि गुणवान् जननी प्राह अस्य मूलदेवस्य नि:स्वत्वेन सर्वेपि गुणगताः अचलस्य स्वस्खत्वेन सर्वेप्यौदार्या दिगुणाः सन्ति यस्यौदार्य तस्य सर्वगुणाधारत्व चेव मन्यसे तदास्य मूलदेवस्य अचलस्यापि च औदार्यपरीक्षां कुरु ततो देवदत्तया एकादासी मूलदेवस्य पार्वे प्रेषिता एकाच अच लस्य पाई हयोरपि दासोइयं प्रत्येकमेव मुवाच देवदत्ता इक्षुयष्ठि मार्गयति तदा मूलदेवः इक्षयष्ठि सगन्धादिना संस्कारं कृत्वापयति तदा देवदत्ता अम्बां प्रत्याह पश्य मूलदेवस्य विवेकितां तदैव अचलेन इक्षुयष्ठिभूतं शकटं प्रेषितं अथ अक्का मूलदेवस्य दृषिणी अचलस्य पाखें गत्वा देवदत्ताया मूलदेवा सक्त स्वरूपमूचे अचलेनोक्त तथा कुरु यथाई मूलदेवं गृहामि तयोक्तमवश्यं मया तद्भोगावसरो ज्ञाप्यः अचलेन तस्यादौनाराष्टगतं दत्तं सा गृहे गत्वा देवदत्ताया इदमकथयत् अचलोऽद्य त्वरितकार्यसमुत्पन्ने क्वचिदग्राम चलितोस्ति सोऽद्य नायास्थति तथाप्यद्य दिनसत्कं भाटकं प्रेषितमस्ति एवमुक्कादौना राष्टशतं तया देवदत्ताया दत्तं देवदत्तयापि मूलदेवस्तदानीमाकारित: सोप्यागतस्तस्थाः शयनीयेसु स्वाभीगे प्रवृत्तः तस्यां वेलायां तयाऽकया मूलदेव देव दत्ता संभोगस्वरूपं अचलस्य ज्ञापितं अचलोऽपि सपरिवार स्तत्रायातः देवदत्ता तं सपरिवारमायातं दृष्ट्वा मूलदेवं शयनौयाधश्चिक्षेपः इतस्ततो वस्त्राणि विस्तारयामास अचलस्तु हार स्वपरिवार मुक्ता तद्दा सम्हान्तर्गत्वा शय नौये उपविष्ट देवदत्ता तु न किञ्चिदुवाच नापि तस्य किञ्चिहिलेपनायुपचार राय धनपतसिंह बाहादुर का आ.सं .उ.१४मा भाग
SR No.007381
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1879
Total Pages1112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy