________________
लोकसामान्याधिकारः ।
अथ तदुपरि पूर्वापरपार्श्ववात फलमानयन्नाह ;सेढी छरज्जु चोद्दसजोयणमायामवासमुस्सेहं । पुव्ववरपासजुगले सत्तमदो तिरियलोगोत्ति ॥ १३२ ॥ श्रेणी षट्ज्जु चतुर्दशयोजनं आयामव्यासोत्सेधम् । पूर्वापर पार्श्वयुगले सप्तमतः तिर्यग्लोकांतं ॥ १३२ ॥
६१:
सेढी । श्रेणी षट्ररज्जुचतुर्दशयोजनानि आयामव्यासोत्सेधाः पूर्वापरपार्श्वयुगले सप्तमतस्तिर्यग् लोकपर्यंतं । भुजकोटीत्यादिना द्विरपवर्त्योभयपार्श्व द्वाभ्यां संगुण्य नेतव्यम् ॥ १३२ ॥
अथ तस्य सिद्धफलमुच्चारयति ;
---
तव्वादरुद्धखेत्तं जोयणचडवीस गुणिदजगपदरं । उभयदिसा संजणिदं णादव्वं गणिदकुसलेहिं ॥ १३३ ॥ तद्वातरुद्धक्षेत्रं योजनचतुर्विंशतिगुणितजगत्प्रतरम् | उभयदिशासंजातं ज्ञातव्यं गणितकुशलैः ॥ १३३ ॥
तव्वाद । तद्वातावरुद्धक्षेत्रं योजनचतुर्विंशतिगुणितजगत्प्रतरं उभयदिशा संजातं ज्ञातव्यं गणितकुशलैः ॥ १३३ ॥
अथ दक्षिणोत्तर पार्श्ववातफलमानयति ;
उदयं भूमुह वेहो छरज्जु सत्तमछरज्जु रज्जू य । जोयण चोद्दस सत्तमतिरियत्ति हु दक्खिणुत्तरदो ॥ १३४ ॥ उदयः भूमुखं वेधः षड्रज्जवः सप्तमषट्रज्जवः रज्जुश्च । योजनचतुर्दश सप्तमस्तिर्यगंतं हि दक्षिणोत्तरतः ॥ १३४ ॥ उदयं । उदयः भूमुखं वेधः षड्रज्जवः ससप्तमषडूरज्जवः एकरज्जुः