________________
.४४
त्रिलोकसारे
वव । व्यवहारैकरोमोऽसंख्येयवर्षसमयैः समं छिन्नं चेत् तदा तानि रोमाणि उद्धारपल्यस्य भवंति । तदपहरणकालश्च तावान उद्धारपल्यरोमसमान एव । प्रतिसमयमेकैकरोमोपहियत इति भावः ॥ १० ॥
अथोद्धारपल्यं निदर्शयति;उद्धारेयं रोमं छिण्णमसंख्येज्जवाससमयेहिं । अद्धारे ते रोमा तत्तियमेत्तो य तकालो॥१०१॥
उद्धारैकं रोमं छिन्नमसंख्येयवर्षसमयैः ।
अद्धारे तानि रोमाणि तावन्मात्रश्च तत्कालः ॥ १०१ ॥ उद्धा । उद्धारैकं रोमोऽसंख्यातवर्षसमयैः समं छिन्नंचेत् तदा तानि रोमाणि अद्धारपल्यस्य भवंति । तदपहरणकालश्च तावन्मात्र एव ॥१०१॥ अथ सागरोपमस्वरूपं सूचयति;एदेसि पल्लाणं कोडाकोडी हवेज दसगुणिदा । तं सागरोवमस्स दु हवेज एकस्त परिमाणम् ॥१०२
एतयोः पल्ययोः कोटीकोटी भवेत् दशगुणिता।
तत् सागरोपमस्य तु भवेत् एकस्य परिमाणम् ॥ १०२ ॥ एदे । एतयोरुद्धाराद्धारपल्ययोर्दशगुणिता कोटीकोटी भवेद्यदि तदा तद्विवक्षितपल्यं विवक्षितस्य एकसागरोपमस्य प्रमाणं भवति ॥ १०२॥
अथ सागरोपमसंज्ञाया अन्वर्थतादर्शनार्थमाह;लवणंबुहिसुहुमफले चउरस्से एकजोयणस्सेव । सुहुमफलेणवहरिदे वर्ल्ड मूलं सहस्सवेहगुणं ॥१०३॥
लवणांबुधिसूक्ष्मफले चतुरस्रे एकयोजनस्यैव । सुक्ष्मफलेनापहृते वृत्तं मूलं सहस्रवेधगुणम् ॥ १०३ ॥