________________
४०४
त्रिलोकसारे
__पुनरंत्यमंगलार्थमेव गणनासमेतानां समुदिताकृत्रिमजिनगृहाणां वंदनां कुर्वन्नाह;कोडी लक्ख सहस्सं अट्ठय छप्पण्ण सत्तणउदी य । चउसदमेगासीदी गणणगए चेदिए वंदे ॥ १०१६ ॥
कोट्यः लक्ष्याणि सहस्राणि अष्ट षट्पंचाशत् सप्तनवतिः च ।
चतुःशतमेकाशीतिः गणनागतानि चैत्यानि वंदे ॥ १०१६ ॥ कोडी । अष्टौ कोट्यः षट्पंचाशल्लक्षाणि सप्तनवतिसहस्राणि चतुःशतानि एकाशीति प्रमितानि ८५६९७४८१ गणनागतानि चैत्यालयानि वंदे१०१६ __ सांप्रतं शास्त्रमिदं परिसमापयन्नत्यमंगलार्थमेव त्रिलोकगोचराणां कृत्रिमाकृत्रिमजिनभवनानां वंदनां कुर्वनाह;तिहुवणजिणिंदगेहे अकिट्टिमे किट्टिमे तिकालभवे । वणकुमरविडंगामरणरखेचरवंदिए वंदे ॥१०१७ ॥ त्रिभुवनजिनेंद्रगेहान् अकृत्रिमान् कृत्रिमान् त्रिकालभवान् । वानकुमारविद्युतांगामरनरखेचरवंदितान् वंदे ॥ १०१७ ॥ तिहु । कृत्रिमान अकृत्रिमान् त्रिकालभवान् व्यंतरभवनवासिज्योतिष्ककल्पवासिनरखेचरवदितान् त्रिभुवनजिनेंद्रगेहान् वंदे ॥ १०१७ ॥ ___ अंतमंगलानंतरं ग्रंथकारः स्वकीयौद्धत्यं परिहरति;इदि णेमिचंदमुणिणा अप्पसुदेणभयणंदिवच्छेण । रइयो तिलोयसारो खमंतु तं बहुसुदाइरिया ॥१०१८॥
इति नेमिचंद्रमुनिना अल्पश्रुतेनाभयनंदिवत्सेन । रचितस्त्रिलोकसारः क्षमंतु तं बहुश्रुताचार्याः ॥ १०१८ ॥ इदि । इत्येवं प्रकारेणाल्पश्रुतेनाभयनंदिसिद्धांतचक्रिवत्सेन श्रीनेमिचंद्रसिद्धांतचणगणिना त्रिलोकसाराख्यो ग्रंथो रचितः तं बहुश्रुताचार्याः क्षमंतु ॥ १०१८॥